________________
चन्द्रप्रमचरितम्
[ ३, ३९ -
६
अत्यन्त दुर्घटमिदं न हि वस्तुनोऽस्य निष्पत्तिरित्यलसगामिनि मावमंस्थाः । संपत्स्यते तय मनोरथ एष शीघ्रमेकान्ततो यदि भवेन्न विधिर्विपक्ष: ॥ ३६ ॥ सन्त्येव केवलशोऽवधिलोचनाश्च तीर्थे जिनस्य मुनयो विविधर्द्धियुक्ताः । जाग्रत्स्वपत्प्रचदलप्रचलच्च विश्वं येषामिदं करतलस्थितवच्चकास्ति ॥४०॥ तेभ्योऽधिगम्य तव संततिलोप हेतुमभ्युद्यतं' प्रतिविधातुमहं यतिष्ये । कम्रैर्वचोभिरिति लोकपत्तिः प्रियायाः शोकापनोदमकरोत्करदीकृताशः ॥४१॥ स्वपरिणामवशेन स्वस्थ परिणामस्य वशेनाधीनतया । शुभं प्रशस्तम् । अथापि अथवा अशुभम् अप्रशस्तं वा देव कर्म पुण्यपापरूपं कर्म । अजितं संपादितम् । तैः जनैः । तद्योग्यमेव तस्य परिणामस्य योग्यमेव । इष्टम् ईप्सितम् । अनीप्सितम् अनिष्टं वा । फलं निष्पत्ति: ( परिणाम: ) । प्राप्यते नीयते ' । आलू व्याप्ती कर्मणि लट् । [ इति] हेतुहीनं हेतुना कारणेन हीनं रहितं यथा तथा । किमिति किं कारणम् शोचर्सि । शुच शोके लट् ॥ ३८ ॥ भस्यन्वेति । अलसगामिनि अलसं मन्दं गच्छतीत्येवं शीला तथोक्ता तस्या संबोधनम् तत्संबुद्धौ । इदम् एतत् । अत्यन्त दुर्घटम् अत्यन्तमधिकं दुर्घटमसाध्यम् । अस्य वस्तुनः अस्य पदार्थस्य । निष्पत्तिर्लाभः । नहीति नास्तीति । मावमंस्थाः मा बुध्यस्व । यदि विधिः पुण्यम् । विपक्ष: प्रतिपक्षः । न भवेत् न जायेत । एकान्ततः निश्चयेन । शीघ्रं लघु । एषः अयम् । मनोरथ: मनोऽभीष्टः । संपत्स्यते संभविष्यते (ति) | पदि गतौ लृट् ॥ ३९|| सन्तीति । एषां [ येषां] मुनीनाम् । जाग्रत् बुध्यमानम् । स्वपत् मुह्यत् । द्रव्यम् [इदम् ] | प्रचलत् जङ्गमम् । अप्रचलत् स्थावरम् । विश्वं समस्तम् । करतलस्थितवत् करतले हस्ततले स्थितवत् । चकास्ति भासते । केवलदृशः " केवलं दृग् दर्शनं ज्ञानं येषां ते केवलज्ञानिनः । अवधिलोचनाः अवधिरेव लोचनं नेत्रं येषां ते, अवविज्ञ निनः । विविधद्धयुक्ताः विविधाभिः ऋद्धिभिर्युक्ताः सहिताः नाना ऋद्धि प्राप्ताः' । [ते] मुनयः मुमुक्षवश्च । जिनस्य जिनेश्वरस्य । तीर्थे सन्ताने समये इत्यर्थः । सन्त्येव वर्त्तन्त एव ||४०|| तेभ्य इति । अहं तेभ्यः वे वलद्गादिभ्यः । अधिगम्य ज्ञात्वा । अभ्युद्यतम् उदयगतम् । तव ते । संततिलोपहेतुं संततेः संतानस्य लोपस्य नाशस्य ( अभावस्य ) हेतुं कारणम् । प्रतिविधातुं प्रतिकारं कर्तुम् । प्रयतिष्ये प्रयत्नं करिष्ये । इति एवं प्रकारेण । कम्रै मनोहरैः । वचोभिः वचनैः । करदीकृताशः प्रागकरदा इदानों करदाः क्रियन्ते स्म करदीकृताः आशा दिशो येन सः । लोकपतिः सार जिन्होंने पूर्व जन्ममें अच्छे या बुरे जैसे भी कर्म बाँधे हैं, वे उन्हीं के अनुकूल अच्छे या बुरे फलको प्राप्त करते हैं । ऐसी स्थिति में तुम व्यर्थ ही शोक क्यों मना रही हो ? ||३८|| हे मन्दगामिनि ! पुत्र होना कठिन है या असम्भव है ऐसा न समझो । यदि भाग्य सर्वथा प्रतिकूल न हुआ तो तुम्हारा यह मनोरथ शीघ्र ही पूरा होगा || ३६ || सुपार्श्वनाथ के तीर्थमें इस समय केवलज्ञानी अवधिज्ञानी और नाना ऋद्धियोंके धारी मुनि विद्यमान हैं, जिन्हें मोह निद्रासे जागे हुए और मोह निद्रा में अचेत पड़े हुए इस सारे जंगम और स्थावर जगत्का स्पष्ट ज्ञान है । जैसे वह उनकी हथेली में स्थित हो ||४०|| किस कारणके रहनेसे तुम्हारे सन्तान नहीं हो रही है, यह उन मुनियोंसे जानकर, उसका प्रतिकार करनेके लिए मैं प्रयत्न करूँगा । इस प्रकारके मधुर वचनोंसे राजाने रानीका शोक दूर कर दिया। सारा संसार उसे अपना स्वामी समझता था,
3
१५
४
५
८२
१. अ आ इ क ख ग घ मद्यत । २. आ 'स्वस्थ' नास्ति । ३. आरूपकर्म । ४. आ संसादितम् । ५. आष्पत्तिम् । ६. = अवाप्यते । ७ = किमर्थं व्यर्थम् । ८ = शोकमनुभवसि । ९ = तत्संबुद्धौ । १०.
=
= मनोऽभीष्टम् । ११. श स लट् । १२. आ केवलं मुख्यं दृक् दृशं ( ? ) येषाम् । १३. आ लोचने नेत्रे । १४. आ नानावृद्धि प्राप्ताः । =नाना बुद्धयादिलब्धिसहिताः । १५. स मुनिवरा: । १६. = श्रीषेणः । १७. श स ' केवल' इति नोपलभ्यते । १८. श स यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org