SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ - ३, ३० ] तृतीयः सर्गः कृत्वा विषादमिति दुःस्थितचित्तवृत्तिर्दुःखं निवेद्य मयि तल्पतले न्यपप्तत् । संबोधितापि न मया बहुभिः प्रकारैः शोकं विमुञ्चति मनागपि देव देवी ॥३॥ सख्या मुखादिति निशम्य विषादहेतुं निःश्वस्य किंचिदथ भूमिपतिर्बभाषे । शोकः शरीरहृदयेन्द्रियशोषहेतुर्युक्तो न देवि तव वस्तुनि दैवसाध्ये ॥३६॥ दुःखेन ते प्रथममस्म्यहमेव दुःखी मददुःखतो' भवति सर्वजनस्य दुःखम् । इत्थं समस्तजनतापरितापहेतोर्मा गाः कृपावति शुचो वशमुद्धतायाः ॥३७॥ । जन्मान्तरे शुभमथाप्यशुभं यदेव यैरर्जितं स्वपरिणामवशेन कर्म । तद्योग्यमेव फलमिष्टमनीप्सितं वा तैः प्राप्यते किमिति शोचसि हेतुहीनम् ॥३८॥ पतिप्रसादाः पत्यु र्धवस्य प्रसादाः प्रसन्नताः। न शक्नुवन्ति ॥३४॥ कृत्वेति । देव भोः स्वामिन् । इति एवं प्रकारेण । विषादं शोकम् । कृत्वा विधाय । दुःस्थितचित्तवृत्तिः दुःस्थिता दैन्यं गता चित्तवृत्तिर्मनोव्यापारो यस्याः सा । देवी स्वामिनी । मयि ( सख्याम् ) । दुःखं विषादम् । निवेद्य उक्त्वा । तल्पतले शय्यातले । न्यपप्तत् अपतत् । पत्लु गतो लुङ् । 'सतिशास्तिलिद्द्युत्पुष्यादेः' अङ्-प्रत्ययः। तद्योगे 'श्वयत्यस्वच्पतोऽयथगुम्पम्' इति पमागमः मया बहुभिः बहुलः । प्रकारैः भेदैः । संबोधितापि विज्ञापितापि। शोकं विषादम् । मनागपि न विमुञ्चति न त्यजति । मुच्ल मोक्षणे लट् ।३५॥ सख्या इति । भूमिपतिः श्रीषणः। सख्या: बालसख्याः। विषादहेतुं विषादस्य शोकस्य हेतुं कारणम् । इति उक्तप्रकारेण । निशम्य श्रुत्वा । किंचित् ईषत् । निश्वस्य निश्वासं कृत्वा । अथ अनन्तरम् । बभाषे ब्रवीति स्म । देवि भो देवि । दैवसाध्ये दैवेन पुण्यन साध्ये । वस्तुनि पदार्थे । शरीरेन्द्रियशोषहेतुः शरीरस्य देहस्य हृदयस्य चित्तस्येन्द्रियाणां स्पर्शनादीनां शोषस्य संतापस्य हेतुः कारणम् । शोकः विषादः। तब भवत्याः। युक्तोन उचितो न भवति ॥३६॥ दुःखेनेति । कृपावति दयावति, कृपा अस्या अस्तीति कृपावती तस्या: संबोधनम् । 'अस्त्यस्मिन्वेति मतः' इति मतुः, 'मान्तोपान्त-' इत्यादिना मस्य वः, 'नदुगि-' इति डी। ते तव । दुःखेन शोकेन । प्रथमं अहमेव दुःखो शोकी । अस्मि भवामि । अस भुवि लट् । मदुःखतः मत् (१) मम दुःखतः शोकतः । सर्वजनस्य सर्वस्य सकलस्य जनस्य । दुःखं विषादः । भवति जायते। इत्यम् अनेन प्रकारेण । समस्त जनतापरितापहेतोः समस्ताया जनतायाः जनसमूहस्य, ‘ग्राम जनबन्धुगजसहायात्तल्' इति तल, परितापस्य संतापस्य हेतोः । उद्धतायाः प्रवृद्धायाः । शुचः शोकस्य । वशम् अधीनम् । मा गाः मा गमः । इण् गतौ लुङ् । 'गैत्योः' इति गादेशः ।।३७।। जन्मेति । यैः जनः। जन्मान्तरे प्रकृतजन्मनोऽन्यज्जन्म जन्मान्तरम्, तस्मिन् पूर्वजन्मनि । प्रसन्न रहनेसे भी मुझे तृप्ति नहीं ॥३४॥ इस प्रकार इसे विषाद हुआ, जिसके फल स्वरूप इसका हृदय व्याकुल हो उठा। इसने अपने मनका सारा दुःख मुझे सुनाया फिर पलंगपर जा गिरी। राजन् ! मैंने इसे नाना प्रकारसे समझाया, किन्तु यह शोकको जरा भी नहीं छोड़ रही है ॥३५॥ सखीके मुखसे इस प्रकार रानीके शोकका कारण सुनकर राजाने लम्बी साँस ली और फिर कुछ रुककर रानीसे बोला-देवि ! जो वस्तु भाग्याधीन है, उसके विषयमें तुम्हें शोक करना उचित नहीं; क्योंकि शोक शरीर, हृदय और इन्द्रियोंके शोषणका कारण है ।।३६॥ तुम्हारे दुःखसे सबसे पहले मैं ही दुखी हो रहा हूँ, और मेरे दुःखसे परिवार एप्रजाके लोगोंको भी दुःख होगा। इस तरह तुम्हारा दुःख सबके दुःखका कारण है। यदि इन सबके प्रति तुम्हें दया है तो हे दयावति ! इतना अधिक शोक न करो ॥३७॥ अपने-अपने शुभ या अशुभ परिणामोंके अनु १. क ख ग घ मे दुःखतो। २. आ श स देवे स्वामिनि । ३. श स त्यक्त्वा । ४. श स पत् गतो। ५. मा प्रतो केवलं स्वस्तिकान्तर्गतः पाठः समुपलभ्यते । ६. आ उचितम् । ७. = तत्संबुद्धौ। ८. = पूर्वम् । ९. = अधीनताम् । १०. श स अन्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy