SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् या स्त्यानधर्मिणि पुरंध्रिजने प्रसिद्धं स्त्रीशब्दमुद्वहति कारणनियंपेक्षम् । सा हास्यभावमुपयाति जनेषु यद्वदन्धः सुलोचन इति व्यपदेशकामः ॥३२॥ चन्द्रोज्झितां रविरलंकुरुते घनानां वीथीं सरोजनिकरः सरसीमहंसाम् । पुत्रं विहाय निजसंततिबीजमन्यो न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् ॥३३॥ तेनोज्झितां निजकुलैकविभूषणेन सौभाग्यसौख्यविभवस्थिरकारणेन।। मां शक्नुवन्ति परितर्पयितुं विपुण्यां न ज्ञातयो न सुहृदो न पतिप्रसादाः ॥३४॥ न विभान्ति न भासन्ते । भा दीप्ती लट् । उपमा ॥३१।। येति ।, या स्त्री । स्त्यानर्मिणी स्त्यानस्य गर्भधारणस्य कर्मिणि धर्मवति (स्त्यानं धर्मो यस्य स स्त्यानधर्मा तस्मिन्) पुरंध्रिजने पुरन्ध्यैव जनः (पुरन्ध्रीणां जनो वर्गः ) तस्मिन् । रूपकम् (?)। प्रसिद्ध प्रतीतम् । स्त्रीशब्दम् । कारणनियंपेक्षं यथा भवति तथा, गर्भधारणं विनापीत्यर्थः, स्त्यानधर्मवती स्त्री (स्त्यायते गर्भो यस्यां सा स्त्री) इति व्युत्पत्तेः! उद्वहति धरति । सा स्त्री। जनेषु लोकेषु । हास्यभावं परिहासत्वम् । उपयाति' अन्धः दृष्टिरहितः । यद्वत् यथा । सुलोचन इति शोभननयन इति । व्यपदेशकामः नामारोपण वांछनः । अर्थान्तरन्यासः ॥३२।। चन्द्रेति । चन्द्रोज्झितां चन्द्रेणोज्झितां रहिताम् । घनानां मेघानाम् । वोथी रथ्यां गगनम् । रविः सूर्यः । अलङ्कुरुते भूषयति । अहंसा हंसरहिताम् । सरसीं सरोवरम् । सरोजनिकरः सरोजानां पद्मानां निकरः समूहः । [ अलङ्कहते ] कुलपुत्रिकाणां कुलोद्भवानां स्त्रीणाम् । निजसंततिबीजं स्वस्य संततेः संतानस्य बीजं कारणम् । पुत्रं तनयम् । विहाय त्यक्त्वा । अन्यः भिन्नः। मण्डनविधिः अलङ्कारविधिः । नास्ति ।।३३॥ तेनेति । निजकुलकविभूषणेन निजस्य स्वस्य कुलस्य एकेन मुख्येन विभूषणेन अलङ्कारभूतेन । सौभाग्यसौख्यविभवस्थिरकारणेन सौभाग्यस्य सुभगत्वस्य सौख्यस्य सुखस्य विभवस्य ऐश्वर्यस्य स्थिरस्य स्थितेः ( स्थिरेण दृढेन ) कारणेन हेतुना । तेन पुत्रेण । उज्झितां रहिताम् । विषण्णां' दुःखिताम् ( विपुण्यां हतभाग्याम् )। माम् । परितर्पयितुं संतर्पयितुम् । ज्ञातयः बन्धवः। न शक्नुवन्ति न समर्था भवन्ति । सुहृदः मित्राणि न शक्नुवन्ति । गर्भ धारण करना स्त्रीका धर्म है। इस धर्मके बिना भी जो निरर्थक 'स्त्री' संज्ञाको धारण करती हैं, लोग उनका परिहास करते हैं। उनकी स्थिति ठीक उस मनुष्यके समान हो जाती है, जो अन्धा होकर भी अपना नाम 'सुलोचन' रखवाना चाहता हो। लोग ऐसे व्यक्तिका परिहास 'आंखोंके अन्धे नामके नयनसुख' कहकर किया करते हैं ॥३२॥ रात्रिके समय चन्द्रमा आकाशकी शोभा बढ़ाता है और उसके अस्त होते ही दिन में सूर्य उसकी शोभा बढ़ाता है। इसी तरह हंस सरोवरकी शोभा बढ़ाते हैं और उनके चले जानेपर कमल उसकी शोभा बढ़ाते हैं। किन्तु कुलकी सन्ततिको आगे बढ़ानेके मुख्य कारण स्वरूप पुत्रके बिना कुलवती स्त्रियोंके लिए कोई दूसरा मण्डनका उपाय नहीं है ॥३३॥ पुत्र कुलका एकमात्र भूषण है, और वही मेरे सौभाग्य, सुख और वैभवका निश्चल कारण है । यदि मैं उससे वंचित रहती हूँ, तो मैं बड़ी अभागिन हूँ। ऐसी दशामें मुझे परिवारके लोग तृप्त नहीं कर सकते और न मित्र ही। पत्नीके लिए पतिके उपहार तृप्ति जनक होते हैं, किन्तु सखि ! मैं दिल की बात कहती हूँ, इस समय मुझे उनसे भी तृप्ति नहीं हो सकती। पुत्र न रहने पर भी मेरे पति देव भले ही प्रसन्न रहें, किन्तु उनके १. आ प्रतावेव स्वस्तिकान्तर्गतः पाठः समवलोक्यते । २. =प्राप्नोति । ३. आ श स नामारोपणम् । ४. श सहितानाम् । ५. आ भूषति । ६. = 'कुलस्त्री कुलबालिका' इति हेमचन्द्रः । ७. आ विहाय विहानं पूर्व त्यक्त्वा । ८. एष टीकाकारधृतः पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy