SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ -३, ३१] तृतीयः सर्गः एषा पुरं त्वदनुभावविवृद्धशोभं द्रष्टुं मयाद्य सह मन्दिरमध्यरुक्षत् ।। चेक्रीडतो निजकराहतकन्दुकेन तत्रैक्षताढव्यपृथुकान्पृथुकान्तियुक्तान् ।।२९॥ तानिन्दुसुन्दरमुखानवलोकयन्ती चिन्तामगादिति विषण्णमुखारविन्दा।। धन्याः स्त्रियो जगति ताः स्पृहयामि ताभ्यो यासामीभिरफला तनयैर्न सृष्टिः ॥३०॥ या मद्विधाः पुनरसंचितपूर्वपुण्याः पुष्पं सदा फलविवर्जितमुवहन्ति। ताः सर्वलोकपरिनिन्दितजन्मलाभा वन्ध्या लता इव भृशं न विभान्ति लोके ॥३१।। एपेति । एषा श्रीकान्ता। त्वदनुभावविवृद्धशोभं त्वत् (?) तव अनुभावेन विवृद्धा प्रवृद्धा शोभा यस्य तत् । पुरं पत्तनम् । द्रष्टुं दर्शनाय । अद्य इदानीम् । मया सह मया साकम् । मन्दिरं सौधम् । अध्यरुक्षत् अधिरोह । तत्र पुरे । निजकराहतकन्दुकेन स्वकरताडितेन कन्दुकेन गोलकेन' चेक्रीडतः पुनः पुनः क्रीडन्तीति चेक्रीडतः [चेक्रोडन्तः] तान् पृथुकान्तियुक्तान् पृथ्व्या महत्या कान्त्या युक्तान् । आढयपृथु कान् आढयानां धनिकानों पृथुकान् बालकान् । 'पृथुक: शावकः शिशुः' इत्यमरः । ऐक्षत ददर्श । ईक्षि दर्शने लङ् । जात्यलङ्कारः ॥२९।। तानिति । इन्दुसुन्दरमुखान् इन्दुरिव चन्द्र इव सुन्दरं मुखं येषां तान् । तान् बालकान् । अवलोकयन्ती पश्यन्ती। विषण्णमुखारविन्दा विषण्णं म्लानं मुखमेवारविन्दं सरसिजं यस्याः सा। अमोभिः एभिः । तनयः बालकः । यासां स्त्रीणाम् । सृष्टि: उत्पत्तिः । अफला निष्फला । न न भवति । ताः स्त्रियः । जगति लोके । धन्याः कृतार्थाः भवन्ति । ताभ्यः स्त्रीभ्यः । स्पृहयामि वाञ्छामि 'स्पृहेषु' इति चतुर्थी। इति एवम् । चिन्ताम् अगात् अगच्छत् । इण् गतौ लुङि । 'गैत्योः' इति गादेशः । 'घुमास्थागापाहाक्सः' इति सेलृक् । अर्थान्तरन्यासः ॥३०॥ या इति । पुनः पश्चात् । असंचितपूर्वपुण्याः असंचितमसंपादितं पूर्वं पुरातनं पुण्यं सुकृतं याभिः ताः। मद्विधा: मम सदृशाः । स्त्रियः । सदा सर्वकाले। फलविजितं फलरहितम् । पुष्पं कुसुमम् । उद्वहन्ति धरन्ति । सर्वलोकपरिनिन्दित जन्मलाभा सर्वैः सकललोकः परिनिन्दितो जन्मनो लाभो यासां ताः । ताः । वध्या: अफलाः पुत्ररहिताश्त्र । लता इव वल्लर्य इव । लोके जगति । भृशम् अत्यर्थम् । केवल भाग्य ही शरण है ॥२८॥ आपके प्रभावसे इस नगरकी शोभा अन्य नगरोंसे बहुत बढ़ीचढ़ी है। इसे देखनेके लिए यह आज मेरे साथ छत पर गयी थी । वहाँसे इसने खेलके मैदान में धनिकोंके कुछ तेजस्वी बच्चोंको देखा, जो हाथकी थपकी दे देकर जी भरकर गेंद खेल रहे थे ॥२९॥ उनके मुख चन्द्रमाके समान सुन्दर थे। उन्हें देखते ही यह चिन्तामग्न हो गई। इसका मुख कमल म्लान हो गया, और यह सोचने लगी कि इस लोक में वे स्त्रियाँ धन्य हैं और उनसे मुझे स्पर्धा है, जिन्होंने इन बच्चोंको जन्म देकर अपना जन्म सफल कर लिया है ॥३०॥ मेरे समान जिन स्त्रियोंने पूर्व जन्म में पुण्य संचय नहीं किया और इसीलिए जो सदा पुष्पवती (यहाँ पुष्प शब्दका अर्थ मासिक धर्म है ) होकर भी उसके फल (गर्भ ) से वंचित रहती हैं, वे बाँझ समझी जाती हैं। वे उन लताओंके समान सर्वथा श्रीहीन मालूम पड़ती हैं, जिनमें फूल तो लगते हैं, पर फल नहीं लगते । सभी लोग उनके जन्मकी निन्दा किया करते हैं ॥३१॥ १. = गेन्दुकेन । 'गेन्दुकः कन्दुकः' इत्यमरः । २. श स ईक्ष । ३. = ईर्ष्यामि । ४. आ प्रतावेव 'उद्वहन्ति धरन्ति' इति समुपलभ्यते । ५. आ अबलाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy