SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [३, २६ - एतेष्वसत्स्वपरितोषनिबन्धनेषु किं कारणं कथय देवि शुचस्तवास्याः । पृष्टेति सा क्षितिभुजा त्रपया न किंचिदूचे परं मुखमलोकत बालसख्याः॥२६।। सा हीवशादथ गिरा किमपि स्खलन्त्या तस्याः सखीति निजगाद परेङ्गितज्ञा । सत्यं न संभवति देव पराभवादिरस्या भवत्प्रणयभारमहाधिकायाः ।।२७।। किंवत्र कारणमभूदपरं विषादे देवं विहाय न यदन्यजनस्य साध्यम् । देवस्य तत्सकलमेव निवेदयामि कर्तव्यवस्तुनि पुनर्नियतिः प्रमाणम् ।।२८।। शक्त वत्स असमर्थेष । निशान्तवध जनप अन्तःपरस्त्रीजनेष । तव ते। निदेशभङ्गः निदेशस्याज्ञाया भङ्गो नाशः । न संजायते न संभवति । जनैङ् प्रादुर्भावे लट् । रूपकमनुमितिश्च ।।२५।। एतेविति । देवि भोः श्रीकान्ता देवि । अपरितोषनिबन्धनेषु आरितोपस्य दुःखस्य निवन्धनेषु कारणेषु । एतेषु उक्तबान्धवादिए । असत्सु अविद्यमानेषु । तव ते । अस्याः एतस्याः। शुचः शोकस्य । कारणं हेतुम् । किम् ? कथय किम् इति ब्रूहि । कथ वाक्यप्रबन्धे लोट् । इति एवंप्रकारेण । क्षितिभुजा भूपतिना। पृष्टा श्रुता । सा श्रीकान्ता । त्रपया लज्जया। किचित् ईषत् ( अपि)। नोचे न ब्रवीति स्म । [ व्यक्तायां वाचि लिट् । 'अस्ति ब्रुवोः-' इत्यादिना वचादेशः । बालसख्याः बालायाः सख्याः। मुखं । परम् अधिकम् । अलोकत ददर्श । लोकृञ् दर्शने लङ् ।।२६।। सेति । अथ सखीमुखावलोकनानन्तरम् । परेङ्गितज्ञा परेषामन्येषामिङ्गितज्ञा अभिप्रायज्ञा। तस्याः श्रीकान्तायाः। सा सखी बालसखो। ह्रोवशात् लज्जावशात् । स्खलन्त्या मिष्टया । गिरा वचनेन । किमपि किंचित । इति वक्ष्यमाणप्रकारेण । निजगाद ब्रवीति स्म । गद व्यक्तायां वाचि लिट् । देव भोः स्वामिन् । भवत्प्रणयभारमहाधिकायाः भवतः तव प्रणयस्य स्नेहस्य भारेण महाधिकायाः महापूजायुक्तायाः । अस्याः देव्याः। पराभवादिः तिरस्कारादिः। न संभवति न जायते । इति सत्यं सत्यमेव ।।२७। किन्विति । किन्तु किमित्युक्ते । अत्र अस्मिन् । विषादे दुःखे । परम् अन्यत् । कारणं हेतुः । अभूत् अभवत् । दैवं पुण्यम् । विहाय त्यक्त्वा । यत् यत्किचित् । अन्यजनस्य अन्यलोकस्य । न साध्यं साध्यं न भवति । तत्सकलमेव तत्सर्वमेव । देवस्य स्वामिनो भवतः । निवेदयामि विज्ञापयामि । पुनः पश्चात् । कतंत्र्यवस्तुनि कर्तव्ये विधातव्ये वस्तुनि पदार्थे । नियतिः नियमः प्रमाणं सत्यभूतम् ॥२८॥ असमर्थ हैं । अतः इनसे तुम्हारी आज्ञाका उल्लंघन नहीं हो सकता है ।।२५।। हे देवि ! जिनकी मैंने सम्भावना की है, वे तुम्हारे असन्तोषके कारण नहीं हैं। फिर तुम्ही कहो, तुम्हारे इस शोकका क्या कारण है ? राजाके यों पूछनेपर रानी लज्जावश कुछ नहीं बोली, किन्तु अपनी बचपनकी सहेलीके मुखको ओर ताकने लगी ॥२६॥ उसकी सहेलो दूसरोंके भावको भाँपने में बड़ी कुशल थी। वह तुरन्त हो रानोका भाव समझ गई। यों उसे भी राजाके सामने बोलने में लज्जाका अनुभव हो रहा था, और वाणी भो स्खलित हो रही थी। किन्तु फिर भी रानीकी आज्ञा शिरोधार्य थी, अत: यों कहने लगी-राजन् ! आपके स्नेहके कारण इसे सभी पूज्य मानते हैं। अतः यह सच है कि पराभव-अपमान आदि इसके शोकके कारण नहीं हैं ॥२७॥ इसके विषादका कारण कुछ और ही है। उसका प्रतीकार केवल भाग्य ही कर सकता है, और कोई नहीं। मैं आपको सब सुना रही हूँ, किन्तु उसे सुनकर क्या कर्तव्य है, इस विषयमें १. म एतेषु सत्स्व । २. म लन्त्याः । ३. = भोः देवि श्रीकान्ते । ४. = पूर्वोक्तेषु । ५. = अनुयुवता । ६. = वदनम् । ७. - केवलम् । ८. = नियतिः भाग्यम् । 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः ।' इत्यमरः । ९. = शरणमिति यावत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy