________________
- ३, २५]
तृतीयः सर्गः संतापमलसुहृदं विरहं विसोढुमुन्मेषमात्रमपि तावकमप्रभूष्णोः । मत्तोऽपि मत्तगजगामिनि निश्चयेन जानीहि संभवति न प्रणयस्य भङ्गः ॥२३।। त्वत्पादपद्मशरणे त्वदधीनवृत्तौ त्वत्प्रेमनिघ्नमनसि त्वभिन्नदेहे । शाठयं मनागपि मृगाङ्कमुखि त्वदीये संभावयामि सरले न सखीजनेऽपि ।।२४।। छन्दानुवर्तिषु पदातिषु बान्धवेषु दास्यं गतेषु च निशान्तवधूजनेषु । भ्रभङ्गमात्रमपि सोढुमशक्नुवत्सु संजायते न तव तन्धि निदेशभङ्गः ॥२५॥
पराजयः । न संभाव्यते न नीयते । भू कृपोवकल्पने कर्मणि लट् । अनुमितिः ॥२२॥ संतामेति । मत्तगज
इव मदगज इव गामिनि गमनशीले संतापमूल-मूलसुहृदं संतापस्य मलं मुख्यं सुहृदं मित्रम् । तावकं तव संबन्धम् । 'युष्मदस्मदो-' इत्यादिना अञ् तद्योगे एकत्वे तबकादेशः । विरहं । उन्मेषमात्रमपि उन्मेष मेव उन्मेषमात्रं क्षणमात्रमपि। विसोढं मषितम । अप्रभष्णोः असमर्थात । मत्तोऽपि मत्सकाशादपि । प्रणयस्य विनयस्य ( स्नेहस्य )। भङ्गो नाशः । न संभवति नोत्पद्यते । इति निश्चयेन नियनेन । जानीहि मन्यस्व । ज्ञा अवबोधने लोट ।।२३।। त्वदिति । मगामखि । मगाइव मुखं यस्याः सा तस्याः संबोधन चन्द्रमुखि ! इत्यर्थः 'असहनज--' इत्यादिना ङो। त्वत्पादपद्मशरणे तव पादावेव पनं तदेव शरणं रक्षणं यस्य तस्मिन् । स्वदधोनवृत्तौ तवाधीना वृत्तिर्यस्य तस्मिन् । त्वत्प्रेमनिघ्नमनसि तव प्रेम्णि प्रीतौ निघ्नमधीनं मनो यस्य तस्मिन् । त्वदभिन्न देहे त्वत्सकाशादभिन्नो देहः कायो यस्य तस्मिन् । सरले ऋजुभावयुक्ते । त्वदीये तव संबन्धे । 'दोश्च्छः ' इति छः। सखोजनेऽपि सख्य एव जनः तस्मिन् । ( शाठ्यं शठत्वं धूर्तत्वं वा ) । न संभावयामि [न] निश्चिनोमि । भू कृपोबकल्पने लट् । रूपकम् ।।२४।। छन्देति । तन्वि कृशाङ्गि । छन्दानुवतिषु अनुवर्तन्ते इत्येवंशीला अनुवर्तिनः छन्दस्यानुवर्तिनः तेषु अनुकूलवृत्तिषु । 'छन्दो वशेऽप्यभिप्राये हार्दाख्या चित्तवृत्तयोः' इति विश्वः । पदातिषु भृत्येषु । दास्यं गतेषु कैकय गतेषु । बान्धवेषु बन्धुषु । बन्धूनामपि दास्यकथनेन तस्या महत्त्वं व्यज्यते । भ्रूभङ्गमात्रमपि भ्रुवो भङ्ग एव भ्रूभङ्गमात्रं तदपि । सोढुं
अपमान किया है ? मुझे तो इसकी सम्भावना नहीं है कि मेरे जीवित रहते कोई तुम्हारा अपमान कर सके ॥२२॥ हे मदमाते गजकी भाँति गमन करनेवाली ! तुम्हारा विछोह होते ही मेरे मनमें सन्ताप होने लगता है। मेरे सन्तापका मूल कारण तुम्हारा विछोह है। इसलिये तुम यह निश्चित समझो कि मैं तुम्हारे स्नेहको नहीं ठुकरा सकता ॥२३॥ हे चन्द्रवदने ! देवि ! तुम्हारी सखियोंने तुम्हारे साथ कोई अनुचित व्यवहार किया हो, यह भी मेरी दृष्टिसे सम्भव नहीं है; क्योंकि उन्हें केवल तुम्हारे चरणकमल ही शरण हैं; उनकी जीविका तुम्हारे अधीन है; वे हृदयसे तुम्हारे प्रेमके लिए लालायित रहती हैं; वे सदा यही सोचती रहती हैं कि तुम्हारे मनमें प्रेम बना रहे; वे क्षड़भर भी तुमसे विलग नहीं होती और सबसे मुख्य बात यह है कि वे सभी सरल हैं--उनके मनमें छल नहीं है ॥२४॥ हे कृशाङ्गि ! सभी नौकर-चाकर तुम्हारे इशारेपर नाचते हैं--तुम्हारी इच्छाके अनुकूल चलते हैं। परिवारके बन्धुओंने तुम्हारी दासता स्वीकार कर ली है और अन्तःपुरको रानियाँ तुम्हारी भ्रकुटो-भौंके टेढ़ेपनको सहन करनेमें
१. = तिरस्कारः । २. =न उन्नीयते न तक्यते । ३. = मत्तगज इव गच्छतीत्येवं शीला मत्तगजगामिनी तत्संबुद्धौ मत्तगजगामिनि । ४. श स ल । ५. = वियोगम् । ६. = तत्संबुद्धौ। ७. अ पद्यमिदं नोपलभ्यते यस्येयं टोका। ८. श स नुवृत्तिषु । ९. छन्दानुवर्तिनः । १०. आ हृदाख्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org