________________
७६
चन्द्रप्रमचरितम् कृत्वापरेधुरखिलावसरं स यावदन्तःपुरं व्रजति किन्नरगीतकीर्तिः। तावत्कराग्रविनिनिष्टकपोलमूलां देवीमुदश्रुनयनां सहसा ददर्श ॥२०॥ तां तादृशीं समवलोक्य समानदुःखो दुःखं विभक्तुमिव तन्मनसि प्रवृत्तम् । स व्याकुलेन मनसा त्वरमाणवृत्तिः पप्रच्छ हेतुमतिशोकसमुद्भवस्य ।।२१।। दुरवीर्यरिपुनिर्दलनप्रवोणे' पृथ्वीतलप्रसृत दुर्विषहप्रतापे । पद्मायताक्षि मयि जीवति जीवितेशे संभाव्यते परभवो न पराभवस्ते ॥२२।।
देव्या महिष्या। प्रणयकोपकृतान्तराणि प्रणयकोपेन कृतं विहितम् अन्तरमवकाशं(शो) येषां (येषु) तानि । सुखानि । अनुभवन् । वासरान् । निनाय यापयति स्म । णी प्रापणे लिट् ।।१९।। कृत्वेति । किन्नरगीतकीतिः किन्नरैर्देवविशेषैर्गीता स्तुना कीतिर्यस्य सः। सः श्रीषेण: । अपरेद्युः अन्यस्मिन् दिने । 'पूर्वापर-' इत्यादिना एद्युस्प्रत्ययः । अखिलावसरं सर्वावसरम् । कृत्वा विधाय। यावत् यावत्पर्यन्तम् । अन्तःपुरम् अवरोधम् । व्रजति गच्छति । तावत् । कराग्रविनिविष्टकपोलमूलां करस्य हस्तस्य अग्रे उपरिभागे विनिविष्टं स्थापितं कपोलस्य गण्डस्य मूलं यया ताम् । उदश्रुनयनाम् उदश्रुणी उत्पतदश्रुणी" नयने नेत्रे यस्याः ताम् । देवी श्रीकान्तादेवीम् । सहसा शीघ्रण (शीघ्रम्) । ददर्श पश्यति स्म । दश प्रेक्षणे लिट् । स्वभावोक्तिः ॥२०॥ तामिति । तादृशी तादृनपाम् । तां श्रीकान्तादेवीम् । समवलोक्य सम्यग् दृष्ट्वा । समानदु.खः समानं दुःखं यस्य सः । सः श्रषेणः । व्याकुलेन कातरेण । मनसा मानसेन । त्वरमाणवृत्तिः सन् त्वरमाणा वृत्तिर्यस्य सः विह्वलवर्तनायुक्तः सन् । तन्मनसि तस्याः देव्याः मनसि चित्ते । प्रवृत्तं स्थितम् । दुःखम् असातम् । विभक्तुमिव विभागं कर्तुमिव । शोकसमुद्भवस्य दुःखोद्भवस्य । हेतुं कारणम् । इति वक्ष्यमाणप्रकारेण । पप्रच्छ पृच्छति स्म । प्रच्छ जीप्सायां लिट् ।।२१।। दुरिति । पनायताक्षि पद्मे इवायते दीर्घ अक्षिणी नेत्रे यस्याः तस्याः संबोधनम् । दुरवोयरिपुनिर्दलनप्रवीणे निवारयितुमशक्यं वीर्य येषां तेषां शत्रूणां निर्दलने विभेदने प्रवीणे समर्थे । पृथ्वीतलप्रसृतदुर्विषहप्रतापे पृथ्वीतले भूतले प्रसृतो विसृतः प्रताप: तेजो यस्य तस्मिन् । जीवितेशे प्राणकान्ते । मयि जीवति सति प्राणति सति । परभवः परः भवः उत्पन्नः । पराभवः
दिनोंमें कभी-कभी रानीके प्रणयकोपके कारण कुछ-कुछ सम्भोगमें व्यवधान पड़ जाया करता था ॥१९॥ उसका यशोगान गन्धर्व देव किया करते थे। एक दिनको बात है-वह आमसभा का काम पूरा करके ज्यों ही अन्तःपुर में प्रवेश करता हैं त्यों ही उसकी दृष्टि एकाएक पट्टरानीपर पड़ी। उसका कपोल हथेलीपर झुका हुआ था और उसकी आँखोंसे आँसू बह रहे थे ॥२०॥ उसे रोते देखकर श्रोषेण भी उसीके समान दुखी हुआ--उसको आँखों में आँसू भर आये। उसका हृदय व्याकुल हो उठा और उसने शीघ्र ही रानीसे इतने बड़े शोक होनेका कारण पूछा। मानो वह उसके दुःखको बाँटना चाहता था ॥२१॥ हे कमललोचने ! हे प्रिये ! बड़ेबड़े पराक्रमी शत्रुओंके छक्के छुड़ानेमें मैं कुशल हूँ, सारे भूमण्डलपर मेरा प्रबल प्रताप फैला हुआ है और मैं तुम्हारे जीवनका रक्षक हूँ। रोनेका कारण बताओ। क्या किसीने तुम्हारा
१. अ 'रिपुराड्दहन प्रवीण म रिपुनिर्दहनप्रवीणे । २. आ प्राप। ३. नीञ् प्रापणे । ४. श स श्रीषेण: तया श्रीकान्तया। ५. = सभाकार्यम् । ६. आ उदघृणि उत्पतदश्रूणि । ७. = 'शर्मसातसुखानि च' इत्यमरः; 'सातं सौख्यं सूखम' इति हेमचन्द्रश्च । ८. = यस्याः सा, तत्संबद्धौ। ९. = रिपणाम । १०. = विस्तत इत्यर्थः । ११. = प्राणिति । १२. = परेभ्यः। १३. = शत्रकृत इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org