SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - ३, १९] तृतीयः सर्गः चन्द्रोज्ज्वलेन यशसा कथितं सुराणामीशस्य संसदि परीतवता त्रिलोकीम् । रूपं ग्रहोतुमनसः स्पृहयन्ति यस्या देव्यो दिवोवतरणाय तपांसि कर्तुम् ॥१७।। दोषानुबन्धरहिता तमसा विमुक्ता रम्या निजोदयविकासितबन्धुपद्मा। प्राभातिकी द्युतिरिवाम्बुजबान्धवस्य या कान्तिमोषधिपतेः परिभूय तस्थौ ॥१८॥ धर्मार्थयोरविदधत्सविशामधीशो वाधा विधूपमयशोधवलीकृताशः । सार्धं तया प्रणयकोपकृतान्तराणि देव्या सुखान्यनुभवन्दिवसानिनाय ॥१६॥ मनः स्वान्तम् । रमयितुं वशीकर्तुमिव' स्वयमेव वत्रे विवाहं चक्रे । वृञ् वरणे लिट् । उत्प्रेक्षा ॥१६॥ चन्द्रेति । त्रिलोकी त्रयाणां लोकानां समाहारः त्रिलोकी, ताम । 'द्विगोः' इति ङो। परीतवता व्याप्तवता । चन्द्रोज्ज्वलेन चन्द्रेणेवोज्जलेन । यशसा कोा । सुराणां देवानाम् । ईशस्य इन्द्रस्य । संसदि सभायाम् । कथितं प्रोक्तम । यस्याः श्रीकान्तायाः। रूपं सौन्दर्यम' । गहीतुमनसः गहीतुं स्वीकतुं मनसो मानसा: चित्ताः' 'तुमो मनस्काम' इति तुमो मकारस्य लोपः । देव्यः देवस्त्रियः। तपांसि तपश्चरणानि । कत्तु करणाय । दिवः स्वर्गात् । अवतरणाय आगमनाय स्पृहयन्ति वाञ्छन्ति । स्पृह ईप्सायां लट् । 'स्पृहेर्वा' इति चतुर्थी । उत्प्रेक्षा ॥१७।। दोषेति । दोषानुबन्धरहिता दोषाया रात्रेर्दोषस्य पापस्यानुबन्धेन संबन्धेन रहिता वियक्ता । तमसा अन्धकारेण. अज्ञानेन वा। वियक्ता रहिता। रम्या मनोहरा । निजोदयविकासितबन्धुपमा निजस्य स्वस्योदयेन विकासितानि प्रस्फुस्फोटितानि बन्धव एव पद्मानि यस्याः (यया) सा। या श्रीकान्ता । अम्बुजबान्धवस्य अम्बुजस्याम्भोजस्य बान्धवस्य सूर्यस्य । प्राभातिको प्राभातस्योदयकालस्येयं प्राभातिकी। द्युतिरिव प्रकाश इव | ओषधिपतेः ओषधीनां पतिश्चन्द्रः, तस्य । कान्ति द्युतिम् । परिभूय तिरस्कृत्य । तस्थौ तिष्ठ. ति स्म । स्या गति निवृत्तौ लिट् । उत्प्रेक्षा ॥१८॥ धर्मेति । धर्मार्थयोः द्वयोः । बाधां विरोधम् । अविदधत अकुर्वन् । विधुपमयशोधवलीकृताशः विधोश्चन्द्रस्योपमेन समानेन यशसा प्रागधवला इदानीं धवलाः क्रियन्ते स्म धवलीकृता आशा दिशो यस्य (येन) सः । विशां राज्ञाम् । अधीशः प्रभुः । सः श्रोषेणः । तया श्रीकान्तया । स्वयं अपना सहायक बना लिया था ॥१६॥ उसका निर्मल यश तीनों लोकों में फैल गया था। उसकी चर्चा इन्द्रकी सभामें भी होती थी। उसे सुनकर स्वर्गकी देवियाँ उसके रूपको पानेकी इच्छासे तपश्चरण करनेके लिए स्वर्गसे उतरकर मनुष्यलोकमें आना चाहती थीं ॥१७॥ जिस प्रकार प्रभात वेलामें सूर्यको प्रभा रात्रिके संसर्गसे रहित और अन्धकार-शून्य होती है। सुन्दर होती है और अपने उदय के साथ ही कमल-बन्धुओंको विकसित करती है । चन्द्रमाको कान्तिको फीका कर देती है। इसी प्रकार वह रानी दोषोंसे रहित, अज्ञान रहित, सुन्दर, अपने अभ्युदयसे अपने बन्धुओंकी वृद्धि करनेवाली और चन्द्रमाको कन्ति को फोका करनेवाली थी ॥१८॥ श्रोषेणने अपने निर्मल यशसे समस्त दिशाओंको धवल कर दिया था-उसका यश दुनियाके कोने-कोने में फैला हुआ था। धार्मिक और आर्थिक कार्यों में बाधा पहुँचाये बिना वह अपनी पट्टरानीके साथ कामसुखका अनुभव करता हुआ काल बिता रहा था। सुखके उन १. % अनुरञ्जयितुम् । २. = स्वत एव । ३. =वतवती स्वीकृतवती। ४. आ रूपं सौन्दर्य रूपम श रूपं सौन्दर्यरूपम् स सौन्दर्य रूपम् । ५. -मनांसि मानसानि चित्तानि यासां ताः । 'चित्तं तु चेतो हृदयं स्वान्तं हृमानसं मनः ।' इत्यमरः । ६. = मानवपर्यायधारणायेति यावत् । ७. = विधोश्चन्द्रस्योपमा यस्य तेन, शशधरधवले नेत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy