________________
- ३, ७ ]
तृतीयः सर्गः संपूर्णशारदनिशाकरकान्तकीर्तिवल्लीवितानपरिवेष्टितविष्टपान्तः। यः पोषगाद्विनयनाद्व्यसनापनोदात्स्वामी गुरुः सुहृदभूदखिलप्रजानाम् ||४|| यत्र प्रशान्तसकलव्यसने विनीते स्वाभाविकं मतिमहातिशयं प्रपन्ने । चक्रनिवासमखिला नरनाथविद्याः पर्युत्सुका इव परस्परदर्शनस्य ॥५॥ तुङ्गत्वमद्रिपतिना हरिणेश्वरत्वं शीतांशुना सुभगता वशिता मुनीन्द्रः । शौर्य मृगाधिपतिना गुरुणा मनीषा गाम्भीर्यमम्बुनिधिना तुलितं यदीयम् ।।६।। नागाः पदातिवृषभास्तुरगा रथाश्च शोभानिमित्तमभवन्खलु यस्य सर्वे ।
आक्रम्य मण्डल पतीनखिलान्स यस्मात्सर्वा बुभोज वसुधां निजतेजसैव ।।७।। विधाने प्रवणाय समर्थाय ( प्रकाशमात्रकार्यकरणसमर्थाय )। शीतांशवे चन्द्राय । नितराम् अत्य तम् । न स्पृहयांबभूव वाञ्छयतिस्म ( वाञ्छतिस्म)। स्पृह ईप्सायां लिट् । सामान्यालङ्कारः ( व्यतिरेकालङ्कारः) ॥३॥ संपूर्णेति । संपूर्णशारदनिशाकरकान्तकीर्तिवल्लीवितानपरिवेष्टितविष्टपान्तः संपूर्णः पूर्णकल: शारदः शरत्कालभवो निशाकरश्चन्द्रः (स) इव कान्ता मनोहराः कीर्तयो यशांसि, उपमा, ता एव वल्यो लता:, रूपकं, तासां वितान: ( नं) समूहस्तेन वेष्टितः परिवृतो विष्टपस्य लोकस्यान्तो मध्यं ( मध्य.) यस्य ( येन) सः। यः श्रीपेणः । अखिलप्रजानाम् अखिलानां प्रजानां पोषणात् रक्षणात् । विनयनात् शिक्षणात् । व्यसनापनोदात् व्यसनस्यापनोदनात् निराकरणात् । यथाक्रमम् । स्वामी पालनात् । गुरुः शिक्षणात् । सुहृत् दुःखनिवारणात् । अभूत् अभवत् । भू सत्तायां लुङ । यथासंख्यालङ्कारः।।४।। यत्रेति । प्रशान्तसकलव्यसने प्रशान्तं विनष्टं सकलं समस्तं व्यसनं दुःखं यस्य तस्मिन् । विनीते विश्रुते ( विनयान्विते )। स्वाभाविक स्वभावभवम् । मतिमहातिशयं मतेबुद्धे महान्तमतिशयम् । प्रपन्ने प्रयाते ( प्राप्ते )। यत्र श्रीषेणे । अखिलाः समस्ताः । नरनाथविद्याः नरनाथस्य राज्ञो विद्याः। परस्परदर्शनाय परस्परस्य दर्शनाय वीक्षणाय । पर्यत्सूका इव पर्युत्कलिका इव ( उत्कण्ठिता इव )। निवासम् आवासम् । चक्रुः विदधुः । डुकृञ् करणे लिट् । उत्प्रेक्षा ।।५।। तुङ्गस्वमिति । यदीयं यस्येदं यदीयम् । 'दोश्च्छः ' । तुडत्वम् उन्नतत्वम । अद्रिपतिना महामेरुणा सह । ईश्वरत्वं प्रभुत्वम् । हरिणा देवेन्द्रेण । सुभगता सौन्दर्यम् । शीतांशना शीताः शीतरूपा अंशवो मयूखा यस्य तेन चन्द्रेण । वशिता इन्द्रियजयत्वम् । मुनीन्द्रैः यतीन्द्रैः । शौर्यं शूरत्वम् । मृगाधिपतिना सिंहेन । मनोषा बुद्धिः । गुरुणा बृहस्पतिना। गाम्भीर्य गम्भीरत्वम् । अम्बुनिधिना समुद्रेण । तुलितं समानीकृतन् । उपमा ( दीपकम् ) ॥६॥ नागा इति । सः श्रीपेणः । यस्मात् । निजतेजसैव निजस्य स्वस्य तेजसैव प्रतापेनैव। अखिलान् समस्तान् । मण्डलपतीन् भूपालान् । आक्रम्य आक्रमणं पूर्व ( पश्चात् किञ्चित् ) तिरस्कृत्य । दिशाओंको प्रकाशित कर दिया तब लोगोंको, केवल प्रकाश फैलानेमें चतुर चन्द्रमाकी चाह बिलकुल ही नहीं रही ॥३॥ उसको कीर्ति शरत्कालीन पूर्णमासीके चन्द्रमाके समान सुन्दर थी। वह दुनियाके कोने-कोने में लताकी तरह फैल गयी थी। भरण-पोषण करनेसे वह राजा सारी प्रजाका स्वामी था; शिक्षा देनेसे गुरु था और संकट निवारण करनेसे मित्र भी था ॥४॥ उसमें कोई बुरा व्यसन नहीं था; वह अत्यन्त नम्र था; उसकी बुद्धि स्वभावतः अत्यन्त तीक्ष्ण थी और इसीलिए उसमें वे सारी विद्याएँ, जिनका अध्ययन राजाओंको अवश्य ही करना चाहिए, आकर रहने लगीं। मानो वे पहले से ही एक-दूसरेसे मिलनेके लिए उत्सुक थीं ॥५॥ उसकी ऊंचाईकी तुलना सुमेरुसे, ऐश्वर्यको इन्द्रसे, सुन्दरताको चन्द्रमासे, जितेन्द्रियताकी बड़े-बड़े मुनियोंसे, शरताको सिंहसे, बुद्धि की बृहस्पतिसे और गम्भीरताको सागरसे की जाती थी ॥६॥ हाथी, घोड़े, रथ और वीर सैनिक ये सभी केवल उसकी शोभाके निमित्त थे; क्योंकि केवल
१. श स इच्छायाम् । २. आ प्रतावेव 'उन्नतत्वम्' इति समुपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org