________________
तृतीयः सर्गः ।
तत्राभिनन्दितनिजाखिलबन्धुपद्मो न्यायांशुजाल निहतापनयान्धकारः । संकोचितारिवनितास्य निशाकरश्रीः श्रीषेण इत्यजनि भानुनिभो नरेन्द्रः ॥ १ ॥ यस्य प्रतापदहनेन विलङ्घयमानमूर्तिर्निरन्तरमरातिगणः समस्तः । द्रष्टुं दिशं न विदिशं चकितः प्रभूष्णुघूकोपमः समभवद्गरिगह्वरस्थः ||२|| यस्य स्फुरद्भिरनुरागकरैर्यशोभिरुद्भासितासु सकलासु दिगङ्गनासु । तन्मात्र कार्यकरणप्रवणाय लोकः शीतांशवे न नितरां स्पृहयांबभूव || ३ ||
गर्भावतारसमयं (ये) भुवनं समस्तं गङ्गाम्बुहेममणिरत्नसुधाभिषिक्तम् । क्षीराब्धिनी र परिशोभितदिव्यकायं श्रीशीतलं जिनपति प्रणमामि नित्यम् ॥
[ ३, १
तत्रेति । तत्र श्रोपुरे । अभिनन्दित निजाखिल बन्धुपद्मः अभिनन्दिताः प्रवर्धिता निजस्य स्वस्य अखिलाः समस्ता बन्धव एव पद्मानि नलिनानि येन (सः) तथोक्तः । अथवा अभिनन्दिता निजाखिलबन्धूनां पद्मा लक्ष्मी न । न्यायांशुजालनिहतापनयान्धकार न्याया नीतयः त एवांशवो मयूखाः तेषां जालं समूहः तेन निहतो - निराकृतोऽपनयो दुर्नीतिः स एवान्धकारः, रूपकं न्यायांशुजालनिहतोऽपनयान्धकारो यस्य ( येन सः ) तथोक्तः । संकोचितारिवनितास्य निशाकरश्रीः संकोचिताऽरीणां शत्रूणां वनितानां नारीणामास्यान्येव निशाकरश्चन्द्रस्तस्य श्रीः शोभा येन तथोक्तः । भानुनिभः भानोः सूर्यस्य निभः समानः । श्रीषेण इति । नरेन्द्रः नृपतिः | अजनि अजायत । जनैङ् प्रादुर्भावे लुङ् । श्लेषोपमा ||१|| यस्येति । यस्य श्रीषेणस्य । प्रतापदहनेन प्रतापः तेजः स एव दहनोऽग्निः तेन । रूपकम् । निरन्तरं निरवकाशम् । विलङ्घयमानमूर्तिः विलङ्घयमाना अनुलङ्घयमाना मूर्तिरवयवो यस्य सः ( अतिक्रम्यमाणतनुः ) । चकितः भीतः । दिशम् आशाम् । विदिशं च । द्रष्टुं वीक्षितुम् । न प्रभूष्णुः समर्थः । भू सत्तायामिति धातो: 'भूजेस्स्नुक्' इति साधुः । धर्मशीलेषु स्नुप्रत्ययः । समस्तः सकलः । अरातिगणः अरातीनां शत्रूणां गणः समूहः । गिरिगह्वरस्थः गिरीणां गह्वरेषु स्थः स्थितः (गिरिगह्वरेषु तिष्ठतीति गिरिगह्वरस्थः) । घूकोपमः घूकस्योलूकस्योपमः समानः (घूकस्योलूकस्योपमा यस्य सः ) । समभवत् समभूत् । भू सत्तायां लङ् || २ || यस्येति । यस्य श्रीयेणस्य । स्फुरद्भिः प्रज्वलद्भिः ( स्फुरणशीलैः ) । अनुरागकरैः अनुरागं सन्तोषं कुर्वन्तीत्यनुरागकराः तैः । यशोभिः कीर्तिभिः । सकलासु सर्वासु । दिगङ्गनासु दिशां ककुभामङ्गनाः कन्यकाः ( दिश आशा एवाङ्गना दिगङ्गना: ) तासु । उद्भासितासु प्रकाशितासु सतीषु । लोकः जनः । तन्मात्र कार्यकरणप्रवणाय तदेव तन्मात्रं प्रकाशनमात्रं तस्य कार्यस्य करणे
Jain Education International
उस श्रीपुरमें श्रोषेण नामका राजा राज्य करता था । वह सूर्य सरीखा था । सूर्य अपने कमल-बन्धुओंका विकास करता है, इसने अपने बन्धु-कमलोंका विकास किया था । सूर्य अपनी किरणोंसे अन्धकारको हटाता है, इसने अपने न्यायसे अन्यायको मिटा दिया था । सूर्य चन्द्रमाकी श्री को फीका कर देता है, इसने अपने शत्रुओंकी स्त्रियोंके चन्द्रमुखको फीका कर दिया था ॥ १ ॥ उसका प्रताप अग्निके समान सन्ताप देनेवाला था । उसके सभी शत्रु उससे सन्तप्त होकर ऐसे घबरा उठे कि वे दिशा और विदिशाको पहचानने में असमर्थ हो गये । फलतः वे पहाड़ों की गुफाओं में जा घुसे और वहीं उल्लुओं की तरह छिपकर बैठ गये || २ || उसका यश सभी ओर बड़ी तेजी से फैल रहा था, और लोगोंके मन में अनुराग उत्पन्न कर रहा था । जब उसने सभी
१. आ पद्मा: ।२. श स जनेर्जा । ३. आ सत्सु स सती ।
For Private & Personal Use Only
www.jainelibrary.org