SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ - २, १४३ ] द्वितीयः सर्गः वापोवनायतनसोधतडागरम्यं स्वर्गाभिभाविविभवोदयवर्द्धमानम् ।' शक्येत तन्न गुरुणापि पुरं यथावदाख्यातुमल्पमतिना किमु मद्विधेन ॥। १४३ ।। ॥ इति श्रीवीरनन्दिकृताबुदयाले चन्द्रप्रभचरिते महाकाव्ये द्वितीयः सर्गः ॥ २ ॥ प्रक्षेपणे । श्लेषालङ्कारः || १४२ ।। वापीति । वापोवनायतनसोधतटाकरम्यं वापीभिर्दीर्घिकाभिर्वनैरुद्यानैः आयतनैः चेत्यालयैः सौधैः प्रासादैः तटाकैः पद्माकरैश्व रम्यं मनोहरम् । स्वर्गाभिभाविविभवोदयवर्द्धमानं स्वर्गं सुरलोकम् अभिभवतीत्येवंशीलः स्वर्गाभिभावी स्वर्गतिरस्कारी स चासौ विभवश्च तथोक्तः, स्वर्गाभिभाविविभवस्यैश्वर्यस्योदयः प्रादुर्भावः तेन वर्धमानम् एधमानम् । तत् पुरं श्रोपुरम् । गुरुणापि बृहस्पतिनापि । यथावत् यथेवास्येति यथावत् सत्यम् । आख्यातुं न शक्येत न समर्थ्येत । शक्ल शक्तो कर्मणि लिङ् । द्विधेन मम विधः समानः तेन मत्सदृशेन । अल्पमतिना अल्पा मतिर्यस्य तेन । किमु शक्येत । अनेन कवेरस्यौद्धत्यपरिहारः कृतः । अतिशयोक्तिः ॥ १४३ ॥ इति वीरनन्दिकृतावुयाङ्के चन्द्रप्रमचरिते महाकाव्ये तद्वयाख्याने च विद्वन्मनोवल्लभाख्ये द्वितीयः सर्गः ॥ २ ॥ नहीं || १४२ ।। उस पुरको सुन्दरता में वापिकाओं, बाग-बगीचों, देवालयों, महलों और सरोवरोंने चार चाँद लगा दिये हैं । वहाँपर स्वर्गके वैभवको भी मात करनेवाला वैभव-अटूट सम्पत्ति है, अतः दिनोंदिन उसकी प्रगति हो रही है । इस लिए उस पुरका वास्तविक वर्णन देवगुरु बृहस्पति भी नहीं कर सकते, फिर मुझ जैसा मन्दमति कर ही कैसे सकता है ? ॥ १४३ ॥ Jain Education International इस प्रकार महाकवि वीरनन्दी विरचित उदयाङ्क चन्द्रप्रभचरित महाकाव्य में दूसरा सर्गं समाप्त हुआ ॥ २ ॥ १. अभिभावविभ क ख ग घ स्वर्गाधिपस्य विभ । २. स यथेवास्तीति यथावत् । ६९ For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy