________________
६८
चन्द्रप्रमचरितम्
विरोधः पञ्जरेष्वेव न मनःसु महात्मनाम् । नाभिष्वेव च नीचत्वं नाचारेषु कुटुम्बिनाम् || १४० ॥ प्राकारपरिखावः परितः परिवेष्टितम् । परिवेषत्रयान्वीतचन्द्रवद्यद्विराजते ।। १४१ ॥
प्रसिद्धेनाविरुद्धेन मानेनाव्यभिचारिणा । वणिजस्ताकाश्चापि यत्र वस्तु प्रमिन्वते ॥ १४२ ॥
इयमपि परिसंख्या ।। १३९। विरोध इति । पञ्जरेष्वेव पक्षिनिरोधककाष्ठयन्त्रेषु [ एव ] । विरोधः वीनां पक्षिणां रोधः तिरोधानं, पक्षे वैरं भवेत् । महात्मनां महानात्मा येषां तेषां सज्जनानाम् । मनःसु मानसेषु | न नास्ति । नाभिष्वेव नाभिप्रदेशेषु [ एव] नीचत्वं निम्नत्वं, पक्षे निकृष्टत्वमस्ति । कुटुम्बिनां गृहस्थानाम् । आचारेषु चारित्रेषु । न नास्ति । इयमपि परिसंख्या ॥१४०॥ प्राकारेति । परितः समन्तात् । प्राकारपरिखावप्रैः प्राकारश्च परिखा च वप्रश्च प्राकारपरिखावप्राः तैः सालजलखातिकाप्राकारान्तर्वेदिकाभिः । परिवेष्टितं परिवृतम् । यत् श्रीपुरम् । परिवेषत्रयान्वीतचन्द्रवत् परिवेषाणां परिधीनां त्रयेण अन्वितश्चासौ चन्द्रश्च स इव । भासते । राजन, दीप्ती लट् । उत्प्रेक्षा ॥ १४१ ॥ । प्रसिद्धेनेति । यत्र श्रीपुरे । वणिजो वाणिजा: । ताकि काश्चापि तर्क न्यायशास्त्रं बोद्धारोऽध्येतारो वा । प्रसिद्धेन लोकप्रतीतेन । अविरुद्धेन विरोधरहितेन विरुद्धरूप हेतुदोषरहितेन । अव्यभिचारिणा क्रयविक्रयकरणे व्यभिचाररहितेन व्यभिचाररूपहेतुदोषरहितेन च । मानेन प्रमाणेन । वस्तु रत्नादिवस्तु वह्न्यादिपदार्थं च । प्रमिण्वते अनुमिते । ममित्र
२
पायी जाती ॥ १३९ ॥ उस पुरमें विरोध - वि + रोध = पक्षियों को रोक रखना केवल पिंजरोंमें ही देखा जाता है; महात्माओंके मनमें विरोध 'नहीं देख पड़ता । केवल स्त्रियोंकी नाभिमें ही गहरायी पायी जाती है; गृहस्थोंके आचरण में नीचता नहीं पायी जाती ॥ १४० ॥ वह नगर चारों ओरसे चहारदीवारी, खाई और अन्तर्वेदीसे घिरा हुआ है, अतः वह तीन परिधियोंके बीचों-बीच पहुँचे हुए चन्द्रमाके समान सुशोभित हो रहा है ॥ १४१ ॥ उस पुरके वणिक्व्यापारी जिन मापनेके पात्रों और तौलनेके वांटोंसे सौदा मापते या तौलते हैं, वे सब लोक प्रसिद्ध हैं । वे लेनेके बड़े और देनेके छोटे नहीं हैं और उनमें कोई पासंग या करामात नहीं हैवहाँ के व्यापारी अत्यन्त प्रामाणिक हैं । इसी प्रकार वहाँके तार्किक भी प्रमेयका निश्चय जिस अनुमान प्रमाणसे करते हैं, उसका अङ्ग हेतु असिद्ध, विरुद्ध और व्यभिचारी नहीं रहता - वे अग्नि आदि प्रमेयों का विश्चय धूम आदि सच्चे हेतुओंसे करते हैं, झूठे हेतुओं - हेत्वाभासोंसे
१. = = 'वैदेहक: सार्थवाहो नैगमो वाणिजो वणिक् । इत्यमरः । बोद्धारोऽध्येतारो वा तेऽपि । ३. श स प्रमाणेन च । ४. श स डुमित्र प्रक्षेपणे ।
[ २, १४० -
Jain Education International
For Private & Personal Use Only
२. = तर्कस्य न्यायशास्त्रस्य
www.jainelibrary.org