SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ -२, १३९] द्वितीयः सर्गः तटपादपसंरुद्धैर्निष्कम्पसलिलानिलैः । मुग्धस्त्रीणां वितन्वाना क्वापि स्फटिकभूभ्रमम् ॥ १३६ ॥ मजत्पुरध्रिधम्मिल्लगलदुज्ज्वलमल्लिका। यत्र तारकितेव द्यौः सर्वतो भाति खातिका ॥ १३७ ।। ( पञ्चभिः कुलकम् ) तीक्ष्णत्वं केवलं यत्र बोधे न वचने नृणाम् । कठिनत्वं कुचद्वन्द कामिनीनां न मानसे ॥१३॥ भङ्गः कचेषु नारीणां व्रतेषु न तपस्विनाम् । विरसत्वं कुकाव्येषु मिथुनेषु न कामिनाम् ।। १३६ ।। बिभ्रती धरती ।।१३५।। तटेति । क्वापि अन्यत्रापि । तटपादपसंमद्धः तटस्य तीरस्य पादपैवौ. संरुद्धरावृतः । अनिल: मरुद्भिः । निष्कम्पसलिला निष्कम्प सलिलं जलं यस्यां सा तथोक्ता। मुग्धस्त्रीणां मुग्धानां मोहितानां' मढानां वा स्त्रीणां वनितानाम। स्फटिकभूभ्रमं स्फटिकेन पाषाणेन निर्मितायाः भुवो भूमे, मं भ्रान्तिम् । वितन्वाना कुर्वाणा। तनूञ् विस्तारे । 'सल्लट्-' इत्यादिना नश्-प्रत्ययः। भ्रान्तिमानलङ्कारः ।।१३६॥ मजदिति । यत्र श्रीपुरे । मज्जत्पुरन्ध्रीधम्मिल्लगलदुज्ज्वलमल्लिका मज्जन्तीनां स्नानं कुर्वतीनां परन्ध्रीणां सुचरित्रवनितानां धम्मिल्ल: संयतक वैः गलन्ती उज्ज्वला मल्लिका मल्लिकापुष्पं यस्यां सा। खातिका परिखा। सर्वतः सर्वप्रदेशतः । द्यौः आकाशम् । तारकितेब तारकाः संजाता यस्यामिति तार किता सेव । भाति स्म रराज । उत्प्रेक्षा । पञ्चभिः कुलकम् ।।१३७ । तीक्ष्णत्वमिति । यत्र श्रीपुरे । तीक्ष्णत्वं कुशाग्रीयत्वं, पक्षे क्रूरत्वम् । केवलं परम् । नगां जनानम् । बोधे ज्ञाने, भवतीति शेषः । वचने भाषणे। न न भवति। कठिनत्वं कर्कशत्वम् । कामिनीनां वनितानाम् । कूच द्वन्द्वे स्तनयुगे, भवतीति शेषः । मानसे हृदये । न न वर्तते । परिसंख्यालङ्कारः । १३८॥ भङ्ग इति । नारीणां वनितानाम् । कचेषु केशेषु । भङ्गः अवमर्दनं (वकत्वम्) स्यात् । तपस्विनां तपोऽस्ति येषामिति तपस्विनः, तेषाम् । 'तपस्स्रग्मायामेधासो विन्' इति विन्-प्रत्ययः । स्तं मत्वर्थे इति पदसंज्ञाभावः । व्रतेषु चारित्रेषु । न न स्यात् । कुकाव्येषु कुत्सितकविवेषु । विरसत्वं शृङ्गारादिनवरसाभावो भवेत् । कामिनां कामुकानाम् । मिथुनेषु द्वन्द्वेषु। न न वर्तते । हिला रहे हैं, उन्हें देखकर ऐसा प्रतीत होता है मानो हवाके झोंकेसे उसके ऊपर फेनका पुज लहरा रहा हो ।।१३५॥ एक ओर परिखाके किनारेपर बहुत ही धनी वृक्षावली है। उससे हवा रुक जाने के कारण उसके जलका जितना अंश बिलकुल ही निश्चल हो रहा है उसे देखकर भोली-भालो स्त्रियोंको स्फटिकमणि जटित भूमि(फर्श)का भ्रम हो रहा है ॥१३६॥ स्नान करते ग्यवती स्त्रियों के केश पाशसे गिरे हए सफेद चमेलीके फल उसके जल में चारों ओर लहराने लगते हैं । अतः वह झिलमिलाते तारोंसे युक्त आकाश सरीखी देख पड़ती है ।।१३७।। उस पुरके निवासियोंकी केवल बुद्धिमें हो तीक्ष्णता है; उनके बचनों में तीक्ष्णता--तोखापन नहीं है । वहाँ केवल स्त्रियोंके स्तन युगल में कठोरता पायी जाती है; उनके मन में कठोरता नहीं पायी जाती ।।१३८।। वहाँको स्त्रियोंके केवल केशोंमें ही धुंबरालापन पाया जाता है। और उन्होंमें मदन भो ( साफ़ करते समय ) देखा जाता है। किन्तु साधओंके व्रतों में दोष नहीं देख पड़ते, और व्रत धारण करनेके पश्चात् उनका मानभङ्ग भी नहीं होता। केवल कुकवियोंके काव्योंमें हो वहाँ नीरसता पायी जाती है, कामियोंके युगल में नीरसता नहीं १. अ कवि भ्रमम् । २. आ मोहिनीनाम् । ३. -- बम्मिल्ले भ्यः संयतकचेभ्यो गलन्तो पतन्ती उज्ज्वला मल्लिका यस्यां सा। ४. =सर्वतस्तारकिता द्योरिव भाति राजते । ५. क म कुचेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy