________________
चन्द्रप्रभचरितम्
[२, १३२ - मानोन्नता महाभोगा मत्तवारणशालिनः । बहुभूमियुता यत्र प्रासादाः पार्थिवोपमाः ।। १३२ ।। अम्बुना घनकिंजल्कच्छादितेन निरन्तरम् । स्वीकुर्वाणा क्वचिल्लदमी हिरण्यखचितक्षितेः ।। १३३ ।। तीरजैस्तरुसंतानैः पयसि प्रतिबिम्वितैः । पातालोपवनारेका कुर्वन्त्यन्यत्र पत्त्रिणाम् ॥ १३४ ॥ बिभ्रती काशसंकाशपक्षविक्षेपशोभिनः।
हंसान्क्वापि मरुल्लोला-फेन पुनानिवात्मनः ।। १३५ ।। बिभ्राण इव दधान इव । भासते भाति । भासत्र दोप्तो लद। उत्प्रेक्षा ।।१३१।। मानेति । यत्र श्रीपुरे । मानोन्नता: मानेन प्रमाणेन. पक्षे मानेन गर्वेण उन्नता उत्तङ्गाः। 'मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे' इति विश्व । महाभोगा: महान् आभोगो विस्तारो येषां ते, पक्षे महान भोगः स्त्रीचन्दनादिविषयानुभवो येषां ते । 'भोगः सुखे धने चाहेः शरीरफणयोरपि । पालने व्यवहारे च निवेशे पण्ययोषिताम् ।।' इति विश्वः । मत्तवारणश लिनः मत्तवारण: मदगजैः, पक्षे उपधानफलकविशेषैः शालिनः शोभमानाः। 'मत्तवारणमिच्छन्ति दानक्लिन्ने मदद्विपे । महाप्रासादत्रीथीनां वरण्डे चाप्युपाश्रये ।।' इति विश्वः । बहुभूभियुताः बह्वोभिभूमिभिः क्षेत्रैः युताः सहिताः । प्रासादाः सौधाः । पार्थिवोपमाः पार्थिवानां भूपतीनामुपमाः सदृशाः भवन्ति । श्लेषोपमा ॥१३२.। अम्नेति । क्वचित् एकस्मिन् प्रदेशे। निरन्तरम् अन्तरान्निर्गतं निरन्तरं निरवकाशं यथा तथा । घनकिजल्कच्छादितेन घनैः किजल्क: केसरै. छादितेन पिहितेन । अम्बुना जलेन हिरण्यखचितक्षितेः हिरण्येन स्वर्णेन खचिताया निमितायाः क्षितेः भूमेः । लक्ष्मी शोभाम् । स्वीकुर्वाणा आददाना। कुलकत्वात् पुरस्तात् खातिका भाति (१३७) इत्यन्वीयते ।।१३३।। तारेति । अन्यत्र पयसि सलिले। प्रतिबिम्बित: प्रतिच्छायां गतः। तीरजः तीरे जायन्त इति तीरजा: तैः, तटजातैः। तरुसन्तानैः तरूणां वृक्षाणां सन्तानैः समूहैः । 'अपत्यगोत्रसमूहसुर कुजेषु सन्तानः' इति नानार्थकोशे । पत्रिणां पत्नमस्त्येषामिति पत्रिण: खगाः तेषाम् । पातालोपवनारेका पातालस्य अधोभुवनस्य उपवनस्य उद्यानस्य आरेको सन्देहम् । कुर्वन्ती विदधती । उत्प्रेक्षा ।।१३४॥ बिभ्रतीति । क्वापि अन्यत्र । काशसंकाशपक्षविक्षेपशोभितः काशस्योन्मत्तेक्षोः संकाशानां पत्राणां विक्षेपेण प्रेरणेन शोभिनो भासिनः । हंसान मरालान् । आत्मनः स्वस्य मरुल्लोलान् मरुता वायुना लोलान् चञ्चलान् । फेनपुजानिव फेनानां डिण्डीराणां पुनानिव पिण्डानिव । हो गई हो ||१३१॥ उस पुरके महल राजाओं सरीखे हैं- राजा गर्वोन्नत होते हैं; वे मापमें उन्नत हैं-बहुत ऊँचे हैं। राजाओंके पास भोग सामगी खूब होती है; उनका विस्तार बहुत है । राजाओंकी शोभा मदमाते हाथियोंसे होती है; वे छज्जोंसे सुशोभित हैं और राजाओंके पास
हाता है तो वे भी तो बहुत भूमिसे युक्त हैं ।। ३२।। उस पुरके चारों ओर परिखा-खाई खुदी हुई है। उसमें लबालब जल भरा हुआ है, और उसमें कमल लहलहा रहे हैं । उनका पराग झड़ कर जलके ऊपर जितने भागमें फैल जाता है, उतना भाग स्वर्ण जटित भूमिकी छवि को ग्रहण कर लेता है ॥१३: ।। उस परिखाके जलमें एक ओर किनारेके वृक्षोंका प्रतिबिम्ब पड़ रहा है उसे देखकर पक्षियों को पाताल में उपवनका सन्देह हो रहा है ।।१३४॥ उस परिखाके जल में जिस ओर हंस तैर रहे हैं, और वे कांसके फूलोंकी भाँति अपने सफेद पंख
१. अ क ख ग घ म कुर्वत्य । २. श स दानक्लिन्नतट द्विपे। ३. उपमा सादश्यं येषां ते । ४. =न्तीति शेषः । ५. आ 'निर्मितायाः' इति नास्ति। ६. श स रक। ७. भवनलोकस्य । ८. आ कुर्वन्ति विदधति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org