________________
- २, १३१]
द्वितीयः सर्गः यत्प्रासादशिरोलग्नपद्मरागांशुभिर्नभः । भिन्नं करोत्यकाण्डेऽपि संध्याशङ्कां शरीरिणाम् ॥ १२८ ।। वासराधिपतिस्तुङ्गप्रतोलीशिखरं शनैः। यत्राधिरुह्य पूर्वाह्ने प्रपूर्णकलशायते ।। १०६ ।। प्राकारशिखरासन्नैस्तारतारकदम्बकैः । यत्र दीपोत्सवभ्रान्तिस्तन्यतेऽनुदिनं निशि ।। १३० ।। प्राकारः परितो यत्र शृङ्गैरुत्तम्भितोडुभिः। नाकावलोकनोत्कण्ठां बिभ्राण इव भासते ॥ १३१ ।।
माङ् माने लट् । अनुमित्यलङ्कारः ॥१२७। यदिति । यत्प्रासादशिरोलग्नपद्मरागांशुभिः यस्य श्रीपुरस्य प्रासादानां सौधानां शिरस्सु शिखरेषु लग्नानां संनद्धानां पद्मरागाणां पद्मरागरत्नानामंशुभिः कान्तिभिः । भिन्नं छन्नम् । नभः आकाशम् । शरीरिणां जनानाम् । अकाण्डेऽपि । 'काण्डोऽस्त्री दण्डबाणार्ववर्गाव सरवारिषु' इत्यमरः । संध्याशङ्कां संध्याया रागस्य शङ्कां सन्देहम् । करोति विदधाति । डुकृञ् करणे लट् । भ्रान्तिमानलङ्कारः ॥१२८।। वासरंति । यत्र पुरे। वासराधिपतिः वासरस्य दिवसस्याधिपतिः सूर्यः। पूर्वाह्न अह्नः पूर्वः पूर्वाह्नः तस्मिन् । तुङ्गप्रतोलीशिखरं तुङ्गस्योन्नतस्य' प्रतोल्या: गोपुरस्य शिखरमग्रभागम् । शनैः नीचैः अधिरुह्य अधिरोहणं पूर्व आरुह्य । प्रपूर्णकलशायते प्रपूर्णश्चासौ कलशश्च तथोक्तः, प्रपूर्णकलश इवाचरतीति तथोक्तः । 'क्यङ्' इत्याचर्यार्थे प्क्यङ्-प्रत्ययः । उपमा ॥१२९।। प्राकार इति । यत्र श्रीपुरे । प्राकारशिखरासन्न: प्राकारस्य सालस्य शिखरस्य अग्रस्य आसन्नैः समीपगतः। तारतारकदम्बकैः ताराणां महतीनां ताराणां नक्षत्राणां कदम्बकैः समूहैः । अनुदिनं प्रतिदिनम् । निशि रात्रौ। दीपोत्सवभ्रान्तिः दीपानामुत्सवस्य भ्रान्तिभ्रमणं । तन्यते क्रियते । तनूज् विस्तारे कर्मणि लट् । भ्रान्तिमानलङ्कारः ॥१३०॥ प्राकार इति । प्राकारः सालः। परितः समन्ततः । उत्तम्भितोडुभिः उत्तम्भिताः धृता: उडवो नक्षत्राणि येषां (यैः) तैः । शृंगै: शिरोभागैः । नाकावलोकनोत्कण्ठां नाकस्य स्वर्गस्यावलोकने दर्शने उत्कण्ठामुत्कलिकाम् ।
चन्द्रकान्त मणियोंका पसीजना देखकर चन्द्रोदयका अनुमान कर लेते हैं।।१२७॥ वहाँके महलोंके ऊपरी सिरेपर पद्मराग मणि जड़े हुए हैं। उनकी लाल किरणोंसे आकाशका रंग लाल हो जाता है। अतः वह सन्ध्या-समय न रहनेपर भी लोगोंको सन्ध्याका भ्रम उत्पन्न कर देता है ।।१२८।। सूर्य दिनके पूर्व भागमें जब धोरे-धीरे उस पुरके दरवाजेके शिखरपर चढ़ जाता है तब वह पूर्ण स्वर्ण कलश-सा प्रतीत होने लगता है ॥१२६॥ चहारदीवारीकी चोटीपर रात्रिके समय जब ताराओंका चमकीला गण पहुँच जाता है तब वह उस पुर में प्रतिदिन दोपावलीका भ्रम फैला देता है ॥१३०॥ उस पुरकी चहारदीवारी रात्रिके समय जब नक्षत्रोंको अपने शिखरोंसे उठा लेती है तब वह ऐसी जान पड़ती है मानो उसे स्वर्ग देखनेकी उत्कण्ठा उत्पन्न
१. = तुङ्गायाः उन्नतायाः । २. = तुङ्गप्रतोलीशिखरम्-उच्चपुरद्वारशिरः। ३. = मन्दम् । ४. =पश्चात् किञ्चित । ५. = अग्रभागस्य । ६. = भ्रमः । ७. = 'उत्कण्ठोत्कलिके समे' इत्यमरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org