________________
६४
[२, १२४ -
चन्द्रप्रमचरितम् मजत्सीमन्तिनीसार्थकुचसंक्रान्तकुङ्कुमः । रक्तांशुकैरिवाभान्ति यस्मिञ्जलधियोषितः ॥ १२४ ॥ महाविभवसंपन्नं तत्रास्ति श्रीपुरं पुरम् । लोकपुण्यैः समुत्पन्नं त्रिविष्टपमिवापरम् ॥ १२५ ॥ प्रासादशृङ्गसंलग्नरत्नोपलमरीचिभिः । सदैवान्तरिता यत्र ज्योतिर्गणविभाभवत् ।। १२६ ॥ चन्द्रकान्तनुतेयंत्र सूर्यकान्तोद्भवाग्नितः । मिमीते सालसंरुद्धरविचन्द्रोदयं जनः ।। १२७ ।।
णाम् । नादः केकारवैः । सुन्दराः मनोहराः । भवन्ति ॥१२३।। मज्जदिति । यस्मिन् सुगन्धिदेशे। जलधियोषितः जलधेर्योषितो नद्यः । मज्जत्सीमन्तिनोसार्थकुचसंक्रान्तकुङ्कमैः मज्जन्तीनां स्नानं कुर्वन्तीनां सोमन्तिनीनां नारीणां सार्थस्य समूहस्य कुचेषु स्तनभरेषु संक्रान्तैराकान्तैः कुङ्कमैः काश्मीरैः । 'सार्थो वणिक्समूहः स्यादपि संघातमात्रके' इति विश्वः । रक्तांशुकैरिव रक्तवसनैरिव । आभान्ति विराजन्ते । भा दीप्तो लट् । उपमा ( उत्प्रेक्षा) ॥१२४|| महेति । यत्र सुगन्धिदेशे। महाविभवसंपन्नं महान्तं पृथुलं विभवम् ऐश्व संपन्नं संप्राप्तम् । श्रीपुरं श्रिया संपत्त्योपलक्षितं पुरं 'श्रीपुरम्' इति । पुरं पुरी । अपरम् अन्यत् । त्रिविष्टपमिव त्रिदशालय इव । लोकपुण्यैः लोकानां जनानां पुण्यैः सुकृतैः समुत्पन्नं संजातम् । उपमालङ्कारः ।।१२५।। प्रासादेति । यत्र श्रीपरे । ज्योतिर्गणविभा ज्योतिषां चन्द्र सूर्यादीनां गणस्य समहस्य विभा कान्तिः। प्रासादशृङ्गसंलग्नरत्नोपलमरीचिभिः प्रासादानां सौधानां शृङ्गेषु शिखरेषु संलग्नानां संवद्धानां रत्नोपलानां मरीचिभिः कान्तिभिः । सदैव सर्वस्मिन् काले सदैव । 'सदैतधुनेदानों तदानों सद्यः' इति साधुः । अन्तरिता आच्छादिता। अभवत् आसीत् । भू सत्तायां लङ् । सामान्यालङ्कारः ॥१२६।। चन्द्रेति । यत्र श्रीपुरे । जनः लोकः। सालसंरुद्ध रविचन्द्रोदयं सालेन प्राकारेण संरुद्धयोरावृतयोः रविचन्द्रयोः सूर्याचन्द्रमसो: उदयमुद्गमनम् । चन्द्रकान्तस्रुतेः चन्द्रकान्तस्य चन्द्रकान्तपाषाणस्य स्रुतेः स्यन्दनात् । सूर्यकान्तोद्भवाग्नितः सूर्यकान्तात् सूर्यकान्तशिलायाः सकाशात् उद्भवात् उत्पन्नात् अग्नितः वह्नः सकाशात् । मिमीते अनुमिनोति ।
बनते हैं ॥१२३॥ वहांकी नदियों में जिस समय स्त्रियाँ स्नान करती हैं, उस समय वे, बहते हुए उनके स्तनोंके केशरके रंगसे रंगीन होकर लाल कपड़ोंको पहननेवाली सौभाग्यवती स्त्रियों सरीखी जान पड़ती हैं ।।१२४॥ उस सुगन्धि देश में एक श्रीपुर नामका पुर है। वहाँ अटूट सम्पत्ति है । वह ऐसा जान पड़ता है मानो वहाँके निवासियोंके प्रचुर पुण्यसे रचा गया दूसरा स्वर्ग हो ॥१२५॥ वहाँके महलोंके शिखरों पर नाना प्रकारके रत्न जड़े हुए हैं। उनकी किरणें आकाशमें फैली रहती हैं। अतः सूर्य, चन्द्र, नक्षत्र और ताराओंकी प्रभा सदा छिपी रहती है ।।१२६।। उस पुरकी चहार दीवारी बहुत ऊंची है। अतः वहां के निवासी कभी सूर्य और चन्द्रमाके उदयको नहीं देख पाते; किन्तु सूर्यकान्त मणियों में से निकलती हुई अग्नि देखकर सूर्योदयका तथा
१. = सन्ति । २. = उपलक्षिता इवेति यावत् । ३. = महता विपुलेन विभवेनैश्वर्येण संपन्नं संयुक्तम् । ४. = उत्प्रेक्षा यमकं च । ५. आकान्तस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org