________________
द्वितीयः सर्गः
यस्मिन्निरन्तरारामविश्रामैर्विधुतश्रमाः । मन्यन्ते ऽध्वानमध्वन्या गृहप्राङ्गणसंनिभम् ॥ १२० यथाभिलषितं वस्तु शश्वत्संपादयन्नृणाम् । जिगीषतीव यः कल्पपादपैर्मण्डितां महीम् ॥ १२१ ॥ विद्युतश्चञ्चला यत्र स्वभावेन न संपदः । कृष्णानि प्रावृडभ्राणि चरितानि न देहिनाम् ॥ १२२ ॥ क्वचिद्गोधनहुंकारैरिनुयन्त्रारवैः क्वचित् । "कचिच्छिखण्डिनां नादैर्निगमा यस्य सुन्दराः ॥ १२३ ॥
- २, १२३ ]
द्रव्यम् । संतानस्यान्वयस्य वृद्धये । कामं वनितासंभोगम् । सेवन्ते अनुभवन्ति स्वीकुर्वन्ति वा । व्यसनात् पुरुषप्रत्यावर्तनहेतुभूतात् । न सेवन्ते इत्यर्थः ।। ११९ । । यस्मिन्निति । यस्मिन् यत्र सुगन्धिदेशे । निरन्तरारामविश्रामः निरन्तराणां निरवकाशानाम् आरामाणाम् उद्यानानां विश्रामैः विश्रान्तिभिः । विधुतश्रमाः विधुतो निराकृतोश्रमो येषां ते तथोक्ताः । अध्वन्याः अध्वानमलंगामिनोऽध्वन्याः पथिकाः । 'यध्वानं यख' इति य-प्रत्ययः । अध्वानं मार्गम् । गृहप्राङ्गणसन्निभं गृहाणां स्वालयानां प्राङ्गणानामङ्गणानां सन्निभं समानमिति । मन्यते जानन्ति ॥ १२० ॥ यथेति । यः सुगत्धिदेशः । नृणां नराणाम् । यथामिलषितं अभिलषितमनतिक्रम्य यथाभिलषितम् । 'यथाथा:' इत्यव्ययीभावः । वस्तु भोगोपभोगवस्तु । शश्वत् अनवरतम् । संपादयन् संचयन् । कल्पपादपैः कल्पाश्चते पादपाश्च कल्पपादपाः तैः कल्पवृक्षैः । मण्डिताम् अलङ्कृताम् । महीं भोगभूमिम् । जिगीषतीव जेतुमिच्छति जिगीषति' जि अभिभवे । 'कम्येककर्तृकात्—' इत्यादिना कम्यर्थे सन् प्रत्ययः । 'जे लिट् सनि' इति नित्यादेशः । उपमा ( उत्प्रेक्षा ) ॥ १२१ ॥ विद्युत इति । यत्र सुगन्धिदेशे । स्वभावेन निसर्गेण । चञ्चलाः चलनरूपाः । विद्युतः तडितः । संपदः ऐश्वर्याणि न चञ्चलाः । कृष्णानि कलुषितानि प्रावृडभ्राणि प्रावृषो वर्षाकालस्याभ्राणि मेघाः । देहिनां च प्राणिनां च । तानि कृष्णानि न न सन्तीत्यर्थः । परिसंख्या ।। १२२॥ क्वचिदिति । यस्य सुगन्धिदेशस्य । निगमाः ग्रामाः । क्वचित् एकस्मिन् प्रदेशे । गोधनहुङ्कारैः गोधनस्य गोसमूहस्य हुङ्कारैः हुङ्कारध्वनिभिः । क्वचित् एकस्मिन् प्रदेशे । इक्षुयन्त्रारवैः इक्षूणां रसालानां ' यन्त्राणाम् आरवैर्ध्वनिभिः । क्वचित् एकस्मिन्प्रदेशे । शिखण्डिनां मयूरा
60
व्यसन - चस्का नहीं है । उन्हें परलोकका खयाल रहता है, इसीलिए वे सदा पारलौकिक क्रियाओं में तत्पर रहते हैं - वे धर्म, अर्थ और काम इन तीनों पुरुषार्थों का सेवन करते हैं, किन्तु उनका ध्यान मुख्यतया धर्मकी ओर ही रहता है ॥ ११६ ॥ वहाँ लगातार बाग-बगीचे हैं । उनमें विश्राम करके पथिक अपनी थकावट दूर करते हैं । अतः मार्गको अपने घरका आंगन सरीखा मानते हैं ॥ १२० ॥ उस देश में वहाँके निवासियोंके मनके अनुकूल वस्तुएँ उत्पन्न होती थीं । अतएव वह देश ऐसा मालूम पड़ता था मानो कल्पवृक्षोंसे विभूषित भोगभूमि और स्वर्गभूमिको जीतना चाहता हो । २२१ ॥ | यहाँ केवल बिजली ही स्वभाव से चञ्चल हैं; सम्पदाएँ चञ्चल नहीं हैं । इसी प्रकार केवल वर्षाकालीन बादल ही काले हैं; वहाँके मनुष्योंके चरित काले- मलिन नहीं हैं ॥। १२२|| वहाँके गाँव अत्यन्त सुन्दर हैं । उनकी सुन्दरता कहीं गायों और बैलोंके रंभानेसे, कहीं गन्ने पेरनेवाले कोल्हुओंके शब्दसे और कहीं मयूरोंके स्वरसे देखते ही
१. इ 'क्वचिच्' इति नास्ति । जेतुमिच्छतीव । ६. आ जि त्रि ९. = 'रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः । इत्यमरः ।
५.
Jain Education International
६३
२. शस ंधू । ३. श स अभि । ७. श स कलुषानि ।
For Private & Personal Use Only
तो । ४. = समुत्पादयन् । ८. = चरितानि आचरणानि ।
www.jainelibrary.org