SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [३, १०यत्र क्वचिद्गुणगणो गतवान्स हैव वृद्धि मया नृपतिरेष पुनर्न जाने । मां द्वेष्टि शंसति शमप्रभृतीनितीव यो जातनिर्भररुषा मुमुचे मदेन ।।८।। वक्षः श्रियो भुजयुगं वरवीरलक्ष्म्याः कान्तेः शरीरमखिलं हृदयं क्षमायाः । यस्यास्पदं मुखमजायत वाग्विभूतेनन्वाश्रयाय सकलस्य सतां प्रयासः ।।६।। भेजे नितान्तमजलोऽपि नदीनभावं यश्चाभवद्वसुमतीतिलकोऽप्यशोकः । दोषाकरश्च न बभूव कलाधरोऽपि सर्व हि विस्मयकरं महतां स्वरूपम् ॥१०॥ सर्वां समस्ताम् । वसुधां भूमिम् । बुभोज पालयति स्म । भुज पालनाभ्यवहारयोः लिट् । 'शपनाथशिक्ष-' इत्यादि सूत्रेण पालनार्थे तङ्। यस्य श्रीषेणस्य । नागाः गजाः । [ पदातिवृषभाः ] पदातयो वृषभा इव तथोक्ताः, 'व्याघ्रादिभि र्गौणैस्तदनुक्तौ' इति कर्मधारयः, भटश्रेष्ठाः । तुरगाः वाजिनः । रथाश्च । सर्व समस्ताः । शोभानिमित्तं विलासार्थम् । अभवन् अभवन् । भ सत्तायां लङ। अतिशयोक्तिः ।।७।। यत्रेति । ( यत्र ) क्वचित् राज्ञि । गुणगणः गुणानां गणः समूहः । मया सहैव सममेव । वृद्धि समृद्धिम् । गतवान् यातवान् । यत्र राज्ञि (?)। न जाने न बुध्ये । ज्ञा अवबोधने । 'अनुपसर्गे ज्ञः' इति लडात्मने पदम् । पुनः पश्चात । एष नपतिः अयं नरनाथः । मां द्वेष्टि क्रध्यति । शमप्रभतीन क्षमादीन् । शंसति सत्करोति । इति एवम् । जातनिर्भररुषेव जातयोत्पन्नया निर्भरयाऽधिकया रुषेव कोपेनेव । मदेन गर्वेण । मुमुचे त्यज्यते स्म । मुच्ल मोक्षणे कर्मणि लिट् ।।८।। वक्ष इति । यस्य श्रीषेणस्य । वक्षः उरः । श्रियः श्रीदेव्याः । आस्पदं स्थानम् । भुजयुगं भुजयोयुगं युगलम् । [वर-] वीरलक्ष्म्याः ( श्रेष्ठ- ) जयलक्ष्म्याः स्थानम् । अखिलं सकलम् । शरीरं गात्रम् । कान्तेः देहदीप्त्याः स्थानम् । हृदयं स्वान्तम् । क्षमायाः क्षान्त्याः स्थानम् । मुखं वदनम् । वाग्विभूतेः वाचः सरस्वत्याः विभूतेः ऐश्वर्यस्य स्थानम् । अजायत अजनि । जनैङ् प्रादुर्भावे लङ् । सतां सत्पुरुषाणाम् । प्रयासः प्रयत्नः। [ननु ] ( निश्चयेन)। सकलस्य सर्वजनस्य । आश्रयाय आधाराय ( भवतीति शेषः । ननु तथाहि ( ? ) । अर्थान्तरन्यासः ॥९॥ भेज इति । यः श्रीषेणः । नितान्तं भृशम् । अजडोऽपि, जलरहित इति ध्वनिः । ॐ न दीनभावं न दीनः, न दीन इति नयो नस्य लुग्मास (?) तस्य भावं दैन्यभावमित्यर्थः । नदीनां सरितामिनः स्वामी तस्य भावः तम् । समद्रस्वरूपममिति ध्वनिः । भेजे सिषेवे ! भजी सेवायां लिट् । वसुमतीतिलकोऽपि वसुमत्याः भूमेस्तिलकोऽप्यलङ्कारोऽपि, वसुमत्यां वर्तमानतिलकवक्षोऽपि, इति ध्वनिः। अशोकः दुःखरहितः, अशोकवृक्ष इति ध्वनिः । अभवत् अभूत् । भू सत्तायां अपने प्रतापसे ही सभी माण्डलीक राजाओंको जीत करके वह समस्त भूमण्डलका परिपालन कर रहा था ॥७॥ जिस किसी भी राजाके गुण अभी तक मेरे हो साथ बढ़े हैं, किन्तु यह राजा न जाने कैसा है, कि मुझसे द्वेष करता है और शम-शान्ति आदि गुणोंकी प्रशंसा किया करता है' मानो इसीलिए अहंकार अत्यन्त रुष्ट हो गया और उसे छोड़कर चला गया ॥८॥ उसका वक्षस्थल लक्ष्मीका, बाहु युगल श्रेष्ठ विजयलक्ष्मी या वीरताका, पूरा शरीर कान्तिका, हृदय क्षमाका और मुख वाणीके वैभवका निवासस्थान हो गया। सज्जनोंका प्रयत्न निश्चय ही दूसरोंको आश्रय देनेके लिए हुआ करता है ॥९॥ वह ( विरोध पक्षमें-) बिलकुल जलरहित था, पर था समुद्र ( परिहार पक्षमें-) वह अत्यन्त बुद्धिमान था, और उनके मन में कभी दोनताके भाव उत्पन्न नहीं होते थे। वह (विरोध पक्षमें-) पृथ्वीका तिलक वृक्ष था तो भी अशोक वृक्ष था (परिहार पक्षमें-) वह भूमण्डलका मण्डन था और उसे कभी शोक नहीं १. अ आ इ क ख ग घ म नत्वाथ। २. आ लेप् श स तिप् । ३. श स गणैः । ४. श स समग्राः । ५. = यत्र क्वचित् यस्मिन् कस्मिश्चित् पुरुष। ६. श स सहेव । ७. श स सर्गज्ञः। ८. आ त्यजति स्म । ९. श स मुचञ् मो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy