________________
चन्द्रप्रमचरितम्
[२, १०८ - तस्मादशेषविकश्चिदस्तीत्यागमसंभवा । प्रमाणं बाधकाभावाद्बुद्धिरक्षादिबुद्धिवत् । १०८ ।। ततो मोक्षोऽपि संसिद्धो रत्नत्रयनिबन्धनः । जोवाजीवास्रवैर्बन्धनिर्जरासंवरैः समम् ।। १०६ ।। वचोभिरिति तत्त्वार्थशंसिभिश्चुम्बकैरिव । स शल्यमिव संदेहमाचकर्ष महीपतेः ॥ ११० ।। यदुक्तं सूरिणा तेन तत्तथेति प्रपद्य सः।
पप्रच्छ पुनरात्मीयान्भवान्मुदितमानसः ।। १११ ॥ 'तथाहि क्वचिदप्यस्ति पुंसि कृत्स्नावृतिक्षयः । तत्कार्यसकलज्ञत्वस्यान्यथानुपपत्तितः' इत्यनुमानस्य च । साधकत्वेन सार्वज्ञसोधकत्वेन । संभवात् ।।१०७।। तस्मादिति । तस्मात् प्रमाणषट्केनापि सर्वज्ञो न बाध्यते यस्मात्, तस्मात् । अशेषवित् अशेषं वेत्तीत्यशेषवित् सर्वज्ञः। कश्चिदस्ति कश्चिद् वर्तते । इति आगमसंभवा बुद्धिः शास्त्रसंभूता एवं मतिः । प्रमाणं प्रमाणभूतव । बाधकाभावात् बाधकस्य प्रतिबन्धकस्य अभावात् असंभवात् । अक्षादिबुद्धिवत् प्रत्यक्षादिज्ञानवत् ॥१०८॥ तत इति । ततः अनुमानप्रमाणेन सर्वज्ञः सिद्धो यतः, ततः रत्नत्रयनिबन्धनः रत्नत्रयमेव निबन्धनं यस्य सः, सम्यग्दर्शनज्ञानचारित्रकारणक: । मोक्षः परमनिर्वाणरूपमोक्षपदार्थः । जीवाजीवास्रवैः जीवश्चाजीवश्चास्त्रवश्च तथोक्ताः तैः। एवं षट्तत्त्वैः समं साकम् । सिद्धः निश्चितः ।।१०९।। वचोमिरिति । सः मुनिपतिः। चुम्बकैरिव अयस्कान्तैरिव । 'चुम्बको बहुगुरुधूर्तायस्कान्तकार्मुके' इत्यभिधानात् । तत्त्वार्थशंसिभिः' तत्त्वार्थस्य शंसिभिः आविष्कारिभिः । इति प्रागुक्तः । वचोभिः वचनैः। महीपतेः पद्मनाभस्य । शल्यमिव शंक्वायुधमिव । सन्देहं संशयम् । आचकर्ष निराचकार । कृष विलेखने लिट् ॥११०॥ यदिति । तेन सुरिणा तेन मुनिनाथेन । यत् उक्तं भाषितम् । तत् तद्वचनम् । तथेति तेन प्रकारेणैवेति । प्रपद्य अङ्गीकृत्य । मुदितमानसः मुदितं संतुष्टं मानसं चित्तं यस्य सः। सः पद्मनाभमहीपतिः । पुनः पश्चात् । आत्मीयान् आत्मन इमे आत्मीयाः तान् स्वसंबन्धान् । भवान् और आगम इन पाँच सद्भाव साधक प्रमाणोंका अभाव रूप अभाव प्रमाण भी सर्वज्ञका बाधक नहीं हो सकता॥१०७॥ अतः 'कोई सर्वज्ञ है' इस प्रकारके शब्दसे उत्पन्न होनेवाली बुद्धि प्रमाण है; क्योंकि इसमें कोई बाधक नहीं है। जैसे प्रत्यक्ष आदि ज्ञान । अर्थात् जैसे 'अयं घट:'-'यह घड़ा है' इत्याकारक प्रत्यक्ष ज्ञान प्रमाण है, इसी प्रकार 'कश्चित् सर्वज्ञः'-'कोई सर्वज्ञ है' इत्याकारक शाब्द ज्ञान भी प्रमाण है ॥१०८॥ सर्वज्ञका सद्भाव सिद्ध हो जानेसे जीव, अजीव, आसव, बन्ध, संवर और निर्जरा इन छह तत्त्वोंके साथ मोक्ष भी सिद्ध हो जाता है, जिसका कारण रत्नत्रय-सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्-चारित्र है ।।१०९।। इस प्रकार सात तत्त्वोंके प्रतिपादन करनेवाले वचनोंसे मुनिराज श्रीधरने राजा पद्मनाभके सन्देहको निकाल दिया। जैसे चुम्बक लोहेकी कोलको निकाल देता है ॥११०॥ मुनिराज महान् विद्वान् थे, अतः उनके उपदेशको वास्तविकतासे राजा बड़ा प्रसन्न हुआ, और उसने कहा-'मुनिराज, जीव आदि तत्त्वोंके विषय में जो आपने उपदेश दिया, वह वैसा ही है, जैसा आगममें बतलाया गया है।' इसके बाद उसने उनसे अपने पिछले और अगले भवोंके बारेमें पूछा ॥११॥
१. अ आ इ म भवात्। २. श स सर्वज्ञ। ३. श स 'बन्धस्य । ४. श स जीवोऽजी । ५. आ चुम्बकबहुँ । ६. आ शंशिभिः । ७. श स आविः का। ८. आ प्रतौ 'तेन' इति समुपलभ्यते नान्यासु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org