________________
-२, ११५]
द्वितीयः सर्गः मुनिना वक्तुमारेभे तस्मै भवपरम्परा । चक्रे भव्यसभा चित्तमवधानपरम्परा ।। ११२ ।। द्वीपे नृप तृतीये यो विद्यते पूर्वमन्दरः। क्रीडत्किन्नरसंकीर्णलताभवनसुन्दरः ।। ११३ ॥ तस्यापरविदेहेऽस्ति सुगन्धिरिति नामतः। देशो विभूष्य शीतोदानद्युत्तरतट स्थितः ॥ ११४ ॥ बिभ्राणैर्वृहदुद्दण्डपिण्डच्छत्रावलिश्रियम् ।
राजन्ते राजवद्यस्य प्रदेशाः क्रमुकद्रमैः ।। ११५ ॥ भूतभविष्यजन्मानि । पप्रच्छ व्याजने' । प्रच्छ जीप्सायां लिट् ॥१११॥ मुनिनेति । मुनिना मुनिनाथेन । भवपरम्परा भवानां जन्मनां परम्परा संततिः। तस्मै पद्मनाभमहीपतये। वक्तुं भाषितम । आरेभे उपचक्रमे । रभि राभस्ये कर्मणि लिट् । परा उत्कृष्टा। भव्यसभा भव्यानां रत्नत्रयाविर्भवनयोग्यानां विनेयजनानां सभा संसत् । अवधानपरं अवधाने सावधाने परं तत्परम् । चित्तं मानसम् । चक्रे विधत्ते स्म । डुकृञ् करणे लिट् ॥११२।। द्वीप इति । नप नन् पातोति नृपः तस्य आमन्त्रणं-हे पद्मनाभ ! तृतीये त्रयाणां पुरणः तृतीयः तस्मिन । 'द्वित्रेस्तीयद्रेश्च ऋश' इति तीयत प्रत्ययः तद्योगे त्रिशब्दस्य रिकारस्य ऋशआदेशः । शित्वात् सर्वस्य । द्वीपे पुष्कराद्ध पे। क्रोडकिन्नरसंकीर्णलताभवनसुन्दरः क्रीडन्तीति क्रीडन्तः(तै:) क्रीडद्भिः किन्नरैः किन्नरदेवैः संकीर्णानामाकोनां लतानां व्रततीनां भवनैः आलयैः सुन्दरो मनोहरः । यः पूर्वमन्दरः पूर्वस्मिन् पूर्वभागे विद्यमानो मन्दरो मेरुः तथोक्तः । विद्यते वर्तते । विदिसत्तायां लट् ।।११३।। तस्येति । तस्य मन्दरस्य अपरविदेहे अपरश्चासौ विदेहश्चापरविदेहः तस्मिन्, पश्चिमविदेहक्षेत्रे। शीतोदानद्युत्तरतढं शीतोदाया नद्याः उत्तरं तटं तोरम् । विभूष्य विभूषणं पूर्व अलङ्कृत्य । स्थितः' नामतः नाम्नो नामतो नामधेयात् । सुगन्धिरिति देशः जनपदः। अस्ति विद्यते । अस भुवि लट् ।।११४॥ बिभ्रेति । यस्य सुगन्धिदेशस्य । प्रदेशा: क्षेत्राणि । बहदण्डपिण्डच्छत्रावलिश्रियम् उद्गता दण्डा उद्दण्डा बृहन्त उद्दण्डा येषां तानि तथोक्तानि पिण्डैनिमितानि छत्राणि पिण्डच्छवाणि बृहद्दण्डानि च पिण्डच्छत्राणि च तेषा मावलिः तस्याः श्रियं शोभाम् । बिभ्राणैः बिनत इति बिभ्राणाः तः । डुभृञ् धारणपोषणयोः । 'सल्लट्'इत्यादिना नश्-प्रत्ययः । क्रमुकद्रुमैः क्रमुकानां पूगानां द्रुमैः वृक्षः। राजबत् राजान इव । राजन्ते भासन्ते । मुनिराजने पद्मनाभसे उनके भवोंके बारे में कहना प्रारम्भ कर दिया और उस समय वहाँ श्रेष्ठ सभामें जितने भव्य लोग उपस्थित थे, सभीने उसे सुनने के लिए अपने-अपने मनको सावधान कर लिया-सभी सावधान होकर सुनने लगे ॥१.२॥ राजन् ! तीसरे द्वीपका नाम पुष्करार्द्ध है, उसके पूर्वमें 'मेरु' पर्वत है, जो 'पूर्व मन्दर' नामसे प्रसिद्ध है। उसके मण्डपोंमें किन्नरगण क्रीड़ा किया करते हैं, जिससे वह बड़ा सुन्दर मालूम पड़ता है ॥११३॥ उस पूर्व मन्दरके पश्चिम विदेहमें शीतोदा नदीके उत्तरी तटपर एक सुगन्धि नामका देश है। उसीसे शीतोदा नदीके उत्तरी तटकी शोभा है ॥११४॥ उस देशमें सुपारीके पेड़ प्रचुर मात्रा में पाये जाते हैं। उनके तने ऊँचे हैं; और उनके ऊपरी भाग, जहाँ सभी ओरसे पत्ते लगे हुए हैं, बिलकुल गोल हैं। अतएव उनमें छातोंको पूरी शोभा उतर आयो है। उनसे उस देशके प्रदेश छत्रधारी राजाओंके
१. = पृच्छतिस्म । २. श स प्रछ जोप्सा । ३. आ प्रतौ केवलं 'रभि राभस्ये कर्मणि लिट्' इति समुपलाते । ४. = एकाग्रतायाम् । ५. = आमन्त्रणे। ६. = पूर्वमन्दरस्य । ७. = पश्चात् किञ्चित् । ८. = विद्यमानः । ९. प्रसिद्ध इति शेषः । १०. = सुगन्धिनामधेयः । ११. अ आ इ म दुद्दण्डपिच्छ । १२. = वस्तुतस्त्वत्र पिण्डपदस्य स्थाने पिच्छपदेनैव भाव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org