SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -२,५] द्वितीयः सर्गः भुक्तिक्रियायाः कर्तृत्वं भोक्तात्मेति स्वयं वदन् । तदेवापह्नवानः सन्कि न जिति कापिलः ।। ८२ ॥ अचेतनस्य बन्धादिः प्रधानस्याप्ययुक्तिकः। तस्मादकर्तृता पापादपि पापीयसी मता ।। ८३ ॥ चित्तसंततिमात्रत्वमप्ययुक्तं प्रकल्पितम् । संतानिव्य तिरेकेण यतः काचिन्न संततिः ॥ ८४ ।। व्यतिरेकेऽपि नित्यत्वं संतानस्य यदीष्यये। प्रतिज्ञाहानिदोषः स्यात्क्षणिकैकान्तवादिनाम् ॥ ८५ ।। बन्धने कर्मणि लिङ् ।।८१।। भुक्तीति । आत्मा जीवपदार्थः । भोक्ता सुखादिभोक्ता । इति एवम् । भुक्ति'क्रियायां भुक्तेरनुभवस्य क्रियायां कायें । कर्तृत्वं स्वतन्त्रत्वम् । स्वयं वदन् वदतीति वदन् ब्रुवन् । कापिल: सांख्यः । तदेव कत्र्तृत्वमेव । अपहनुवानः सन् अपहनुते इति अपनुवानः अपलपन् सन् । किं किं निमित्तम् । न जिह्रति लज्जां न प्राप्नोति । हो लज्जायां लट् । आत्मनः स्वयं कर्तत्वोपगमाभावे भोक्तृत्वं न घटते इति तात्पर्यम् ॥८२।। अचेतनस्येति । अचेतनस्य अचेतनद्रव्यस्य । प्रधानस्यापि प्रकृतितत्त्वस्यापि । अयुक्तितः अयुक्तेरयुक्तितः । प्रधानस्य शुभाशुभकर्मकरणे युक्तरसंभवात् । बन्धादि: कर्मबन्धादिः । न न भवति । तस्मात् युक्तरभावात् । अकर्तृता अकर्तृत्वम् । पापादपि कष्टादपि । पापीयसी" अतिशयेन पापरूपेति । मता मन्यते स्म मता ज्ञाता ।।८३ । चित्तेति । यतः यस्मात । संतानिव्यतिरेकेण संतानिनमन्तरेण । काचित एका। संततिः संतानः । न न भवति। चित्तसंततिमात्र [ त्व-] मपि चित्तस्य चेतसः' संततिरेव संततिमात्रं तस्य भावः तत्त्वम् । तदपि अयक्तप्रकल्पितम अयक्तेन यक्तिरहितेन प्रकल्पितं विहितम ॥८४॥ व्यतिरेक इति । व्यतिरेकेऽपि संतानिव्यतिरेकेऽपि सति । संतानस्य संततेः । नित्यत्वं स्थिरत्वम् । यदीष्यते यद्यङ्गीक्रियते । तहि । 'आत्मा भोक्ता है' यह कहकर सांख्यने स्वयं ही यह स्वीकार कर लिया कि वह 'भुक्ति' क्रियाका कर्ता है, किन्तु फिर भी उसके कत्र्तृत्वको छिपाते हुए उसे क्यों संकोच नहीं होता ? आत्माको कर्ता माने बिना उसे भोक्ता नहीं माना जा सकता ॥८२॥ यदि यह कहा जाय कि यह प्रधानप्रकृतिके बन्ध आदि होते हैं, तो यह भी युक्तिसङ्गत नहीं; क्योंकि वह अचेतन है। अचेतनको न बन्ध होता है और न मोक्ष। इसलिए आत्माको अकर्ता मानना पाप है, पाप ही नहीं महापाप है ॥८३॥ बौद्ध लोगोंकी कल्पना है कि केवल चित्त सन्तान-ज्ञानधारा ही आत्मा है, यह भी असङ्गत है; क्योंकि सन्तानी--सन्तानवान् द्रव्यके बिना कोई भी सन्तान-गुण या पर्याय सम्भव नहीं। गुण, द्रव्यको आश्रय बनाकर उसी में रहते हैं। द्रव्यके बिना गुण नहीं रह सकते, यह सभी दार्शनिक स्वीकार करते हैं। बौद्ध ज्ञानको धाराको ही आत्मा मानते हैं, किन्तु ज्ञानको धारा तो गुण है, अतः गुणी-आत्माके बिना गुण-ज्ञानधाराकी सत्ता कैसे रह सकती है ? ||८४॥ यदि आप सन्तानको सन्तानीके अभाव में भी मानते हैं, तो हम आपसे पूछते हैं कि वह सन्तान नित्य है या अनित्य ? यदि आप नित्य मानते हैं, तो आपकी १. श्र सत्तादि । २. 'भुक्तिक्रियायां' इति टीकाकारधृतः पाठः । सर्वासु प्रतिषु तु 'भुक्तिक्रियायाः' इत्येव दृश्यते। ३. आ श स चेतनेति। ४. अयमपि पाठः टीकाकृताधृतः, प्रतिषु तु 'अयुक्तिकः' इत्येव समुपलभ्यते । ५. = नन्वात्मा न बध्यते, इति चेत्, न, अचेतनस्य प्रधानस्य बन्धादिरप्ययुक्तिकः, तन एव बध्यते-इत्यर्थः । तस्मादात्मनोऽकर्तता पापादपि पापीयसी। ६. =ज्ञानस्य। ७. प्रतिष तु 'अयुवतं' इत्येवास्ति । ८. = संतानिनः सकाशाद भिन्नत्वेऽपीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy