________________
५४
श्री कथारत्नाकरे
तेन शीलादिधर्मपरायणा भूयांसः, दातारस्तु स्तोकाः, यतः - ये शीलं परिशीलयन्ति ललितं ते सन्ति भूयस्तरास्तप्यन्ते ननु ये सुदुस्तपतपस्ते सन्ति चानेकशः ॥ ते सन्ति प्रचुराश्च भासुरतरं ये भावमाबिभ्रते । ये दानं वितरन्ति भूरि करिवत्ते केचिदेवाऽवनौ ॥ २ ॥ किञ्च दातैव दातुमलं, यतः -
यैस्तु दानानि दत्तानि, पुनर्दातुं हि ते क्षमाः ।
कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः ॥ ३ ॥ आस्तामन्या कीर्तिस्फूर्तिमूर्तिः स्तुतिः, दातारो हि स्वनामश्रवणेनाऽपि तुष्टा सन्तः संता: समीहितं यच्छन्ति, यतः -
सन्तोषं यान्ति दातारः, स्वाख्यामात्र श्रुतेरपि ।
भीमलेति निजाह्वान - श्रुतेः सुरस्तुतोष यत् ॥ ४ ॥
तथाहि-मालवदेशे मण्डपाचलासन्नसेनपुरवासिनौ नेता भीमलानामानौ पितृपुत्रौ चारण मार्गणार्थं देशान्तरे भ्रमन्तावन्यदा मध्याह्ने मध्यमग्रामे प्राप्तौ । तदा च तटाकपालीपिप्पलाधस्तात्सुतं विमुच्य पिता भोजनसामग्रीकृते पुरं प्राविशत्, तदा च वेलाविशेषेण पौरैः समाधिपृच्छापूर्वकं सन्मानितोऽप्ययमकृतभोजन एव समागत्य पुत्रपुरस्तत्कालकृतमेकं दोधकमभाणीत् । तथाहि— आदर एथ अपार, नगरमांहि ने तो भाई ।
कुणहि न कीधी सार, भोजनवेला भीमला ॥ ५ ॥ [ सोरठा ] चारणिकेन छन्दसा वर्यया च शब्दरचनया रञ्जितेन सुतेन भूयो भणेति प्रेरितः पिता तं दोधकं त्रिरपाठीत् ।
इतश्च तन्नगरनिवासी आगतगतयतियोगियाचकाभ्यागतभिक्षाचराणां भक्तिशक्तिकृपाभिस्तोषको भीमलानामा वणिक् शुभध्यानेन मृतः सुरत्वमापन्नस्तत्र पिप्पले स्थितः स्वनामाङ्कितं पुनः पुनः पठ्यमानं चं दोधकमाकर्ण्यति दध्यौ, अहो ! सकलेऽपि पुरे पौरैरभोजितोऽसौ चारण: कथञ्चिन्ममावासमेकं कृष्णावासमवगम्य मत्पुरो भूयो भूयो विज्ञपयति, तेनाऽयं मया तोषणीय इति ध्यात्वा प्रकटितस्वरूपः स सुरः सपादकोटिकनकमूल्यं मणिं च तस्मै दत्त्वा तिरोदधे ॥ इति दाने भीमलानाम वणिक्कथा ॥ ३८ ॥
॥ ३९ ॥ सत्सङ्गविषये पटुबटुखटु कथा ॥ तानि सुकृतानि दुर्लभानि यैः सत्सङ्गलब्धिः, यतः -
श्री हेमविजयरचिते
Jain Education International
भूतले हि सुलभा विभूतयो, येन तेन सुकृतेन कर्मणा । दुर्लभानि सुकृतानि तानि यै - र्लभ्यते पुरुषरत्नमुत्तमम् ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org