________________
५५
तरङ्ग २/ कथा ३८/३९ तानि च पुरुषरत्नानि जगति कियन्त्येव । यतःमनसि वचसि काये पुण्यपीयूषपूर्णा-स्त्रिभुवनमुपकार श्रेणिभिः प्रीणयन्तः । परगुणपरमाणुं पर्वतीकृत्य नित्यं, निजहदि विकसन्तः सन्ति सन्तः कियन्तः? ॥ २ ॥ तेषां सतां सङ्गतिः किं किं न यच्छति ? यतः
जाड्यं धियो हरति सिञ्चति वाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति,
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ ३ ॥ किं बहुना? मरणादपि सत्सङ्गतिः पाति । यतः
सत्सङ्गसुरवृक्षस्य विभूतिर्भुवनाद्भुता।
अभूत्सुखी पटुः प्राप्य रात्रिभुक्तिव्रतं मुनेः ॥ ४ ॥ __ तथाहि-सुखासनग्रामे पटुबटुखटुनामानः कुटुम्बिनस्त्रयो भ्रातरो भृशं परस्परं प्रीतिभाजो वसन्ति स्म । तेषु च पटुनामा ज्येष्ठो भ्राता यतियोगिविप्रतापसकविभट्टारकादिसत्सङ्गरङ्गरङ्गितमनाः क्षेत्रादिकर्षणकृषीवलव्यापारपरायणोऽन्यदा वर्षासु स्वक्षेत्रान्तर्वर्तिकुटीरे स्थितो मेघोपद्रुतमेकं मूर्तिमन्तं धर्ममिव मुनिं कुटिरे रक्षितवान् । स्वस्थीभूतः स च साधुः सत्सङ्गसुरसालस्य फलमिव रात्रि-भोजननियमं तस्मै पटवे दत्त्वाऽन्यत्र विजहार ।
___इतश्च तस्यामेव निशि तस्य वेश्मनि पर्वदिवसत्वान्निष्पन्नं चूरिमकं [निष्पादितमासीत् । अथ] रात्रिभोजने कृतनियमत्वेन ज्येष्ठं भ्रातरं तमभुञ्जानं विलोक्य मिथःप्रीतिपरायणत्वेन तत्सोदरेष्वभुक्तवत्सु सत्सु तेषां त्रयाणां गृहिण्योऽप्यभुक्ता एव तस्थुः । अथ चोषसि भोक्तुमुपविष्टास्ते त्रयोऽपि सहोदरा रात्रितमसि भृशोष्णपूपिकानामुपरि पतनेन प्रचण्डमुशलप्रहारैश्चोदूखलान्तःखण्डीभूतस्य सर्पस्य मुखदन्तदंष्ट्रात्वगस्थिपुच्छादि चूरिमकान्तरुदीक्ष्येत्यूचुः, हा धिगस्तु रात्रिंचरानिव रात्रिभुक्तिपरान्, यैस्तु महदप्येतन्नरककूपपातकं पातकं प्रतिदिनमनुष्ठीयते । बटुखटुनामानौ द्वौ भ्रातरौ ज्यायांसं भ्रातरमित्यभिदधुः, हे बन्धो! तव प्रसादेन सर्वोऽपि परिवारो जिजीव, यतो जग्धचूरिमकाणामस्माकं क्व जीवितमिति भूयोभूयस्तमभिष्टुत्य तौ धर्माभिमुखत्वं जग्मतुः, पटुरपि सत्सङ्गफलमतीवपेशलं मन्यमानस्तस्यैव मुनेदर्शनमीहमानश्चान्यदा पथि गच्छन्तं सुरद्रुममिव तं मुनिमुदीक्ष्य स सर्वमप्यात्मनो व्यतिकरं व्याकरोत् । अथ च सपरिवारोऽपि सत्सङ्गसेवापटुः पटुस्तस्य मुनेरन्तिके सम्यक्त्वमूलं द्वादशव्रतात्मकं गृहिधर्ममङ्गीकृत्य सम्यक् प्रपाल्य चानल्प-- सम्पदमच्युतकल्पं ययौ ॥ इति सत्सङ्गविषये कथा ॥३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org