________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥४०॥ज्ञाने भीमवणिकथा ॥ यश:सुखकारणं हि ज्ञानं, यतः
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः ॥ विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं ।
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ १ ॥ तेन ज्ञानाऽभ्यासपराणां स्वर्गादिविचारा: सुविचाराः । यतः
तृणं ब्रह्मविदः स्वर्ग-स्तृणं शूरस्य जीवितम् ।
विरक्तस्य तृणं नारी, निःस्पृहस्य तृणं जगत् ॥ २ ॥ किं बहुना? स्तोकादपि ज्ञानादनाः पयोधराज्जगत्तापा इव सत्वरं विलयं यान्ति । यत:
ज्ञानैकसुरसालस्य सौरभं किमु वर्ण्यते।
विषाऽन्नज्ञातमात्रेण, भ्राता भीमेन रक्षितः ॥ ३ ॥ तथाहि- शङ्करनाम्नि ग्रामे धनदाविव धनेश्वरौ, स्वर्वैद्याविव सुन्दरौ, मदनवसन्ताविव भृशं मिथः प्रीतिमन्तावुभौ भीमासीमानामानौ भ्रातरावभूताम्। तयोश्च ज्यायान् ज्ञानार्थी सन् प्रत्यहं पण्डितपरिचयपरायणोऽभूत् । पण्डितानां हि वार्ताऽपि सकलशास्त्रमूलं, यतः
परिचयितव्याः सन्तो यद्यपि कथयन्ति नैकमपि वाक्यम् ।
यास्तेषां स्वैरकथा-स्ता एव भवन्ति शास्त्राणि ॥ ४ ॥ अपि चपंडितसरसी गोठडी, मुज मनि परि सोहाइ ।
आलिई जइ बोलावीएं, माणिक आपी जाय ॥ ५ ॥ [दोहा ] लघीयान् भ्राता तु परिवारवारितोऽपि नीचसङ्गं न मुञ्चति, स्वभावो हि दुस्त्याज्य:, यतः
जे जस लगइ सहावडा, ते फीट्टइ मरणेण।
सुणहा वंकी पूंछडी, समी न कीजें केण ॥ ६ ॥ अथाऽन्यदा प्रभूतैर्मन्त्रतन्त्रादिभिः प्रपञ्चितचमत्कारेण बहुदृष्टप्रत्ययेन मायामन्दिरेण सुन्दर-नामयोगिना सीमाह्वो लघुभ्राता मैत्रीमसूत्रयत् । एकदा च भोगिनेव कुटिलगतिना तेन योगिना बहुभिर्बहुमूल्यैः सुवर्णमणिभूषणैर्भूषितः सोऽभाणि, हे बाल! मूलिकामिमां गृहाण येनाऽस्यां निकटस्थायां या युवती त्वां पश्यति, सा त्वां लोहमयस्कान्तमणिरिव न मुञ्चति । अस्याश्चाऽऽदानविधिरसौयत्समादानावसरे गुरुणा सहैकत्र भाजने भोजनं विधीयते । तदनु च गृहीताऽसौ सिद्धिकरीत्यभिधाय स योगी श्यामचतुर्दश्यां निशि सङ्केतं कृतवान्। इतश्च तद्भ्राता भीमाह्वोऽपि पण्डितानां पार्श्वे नानासुभाषितश्रवणेन कालं गमयति स्म। यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org