________________
तरङ्ग २ / कथा ४० / ४१
गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणाम्, निद्रया कलहेन वा ॥ ७ ॥ एकदा बुद्धिसागरगुरूणामभ्यर्णे स इति सविषान्नज्ञानमशृणोत् । यतःदृष्ट्वाऽन्नं सविषं चकोरविहगो धत्ते विरागं दृशो
सः कूजति सारिका च वमति क्रोशत्यजस्रं शुकः ॥ काकः क्षामस्वरस्तथा परभृतः प्राप्नोति मृत्युं क्षणात् । क्रौञ्च माद्यति हर्षवांश्च नकुलः कुर्यात्पुरीषं कपिः ॥ ८ ॥
इदं ज्ञानं वर्यमिति [ ध्यात्वा स] मनसि रक्षितवान् । इतश्च तस्मिन् सङ्केते एकं सविषमेकं च निर्विषमेवं मोदकद्वयं विधाय तेन सीमाह्वेन सह भोक्तुमुपविष्टस्य तस्य योगिनो मठिकान्तर्भ्रातरं विलोकयन् कुतश्चिदवगततत्स्वरूपो भीमाह्वस्तद्व्यतिकरं तत्समीपस्थं च तदैव विहितपुरीषं च कपिं पश्यति स्म । तदा च स विषाऽन्नविचारविदुरः स भीमस्तस्मिन्मोदके विषं विज्ञाय योगिनं जगौ, 'हे योगिन् ! किमिदं विधीयते ?' [ योग्याह ] केनचिद्दत्तं मोदकद्वयं भुज्यते इति वदन् स योगी [ भीमेन ] पानीयप्रयोगेण तस्मिन् मोदके विषं दर्शयित्वा मुष्टियष्ट्यादिभिर्बाढं निहत्य ग्रामान्निष्कासितो, भ्राता च मरणाद्रक्षितः, ततस्तेन भीमेन तदनन्तरं विशेषेण ज्ञानाऽभ्यासपरेण जातमिति ॥ इति ज्ञाने भीमवणिक्कथा ॥ ४० ॥
॥ ४१ ॥ स्त्रीचरित्रे वासवयोगिकथा ॥
स्त्रियोऽपि हि कपटलम्पटचित्तवृत्तयः स्युः, यतः -
अण्णं रमइ निरिक्खड़, अण्णं चिंतेइ भासए अण्णं । अण्णस्स देइ दोसो, कवडकुडी कामिणी विअडा ॥ १ ॥ अपि च
दुरितवनघनालिः शोककासारपालिः, भवकमलमराली पापतोयप्रणाली । विकटकपटपेटी मोहभूपालचेटी, विषयविषभुजङ्गी दुःखसारा कृशाङ्गी ॥ २ ॥ तेनैतासां दुश्चरितं ज्ञात्वा केऽपि सन्तः संसाराद्विरक्ताः स्युः, यतः - ज्ञातस्त्रीचरिताः सन्तो, विरक्ताः केऽपि तत्क्षणात् । यथाऽभूद्विरतो योगी, ज्ञातस्त्रीचरितस्थितिः ॥ ३ ॥
Jain Education International
५७
तथाहि
कुञ्जरासननगरनिकटवर्त्तिकोटिकूटगिरिवासी वासवो नाम योगी द्विपथ - त्रिपथचतुष्पथ-राजपथ-महापथादिषु भ्रमन् 'सती रे सती अम घरि सती' इति पदं पुनः पुनर्भणन् प्रतिगृहं प्रतिहट्टं भिक्षां याचते । एकदा तन्नगराधिपतेः सिंहसेनस्य राज्ञः सूरेण मन्त्रिणा तत्पदं १. सन्तः केऽपि विरक्ता क्षणात् - PD ॥
For Private & Personal Use Only
www.jainelibrary.org