________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते पठन् स भोजनार्थमाकारितो, ज्ञातं च तद्वचननयनेङ्गितादिना तच्चरितमिति, नूनमस्य स्त्रीरस्ति। तां च चेतसि सतीमिति मन्यमानोऽयं मूढोऽनवसितस्त्रीचरित्रस्तत्पदं पठन् भिक्षार्थं भ्रमति । तेन तामुदीक्ष्यैतस्य स्वकलत्रसतीत्वाहङ्कारमहं निराकरोमीति ध्यात्वा स मन्त्री तं योगिनं ससत्कारं विसृज्य प्रच्छन्नतया स्वचरेण तत्स्थाननिर्णयं विधायाऽन्यदा तत्पृष्ठे गच्छंस्तद्गुहाद्वारं तदुद्घाटनविधिं च ज्ञात्वान्येद्यु-र्वस्त्रालङ्कारविभूषितः गते तस्मिन् योगिनि योगिनः संज्ञयैव तत्प्रियोद्घाटिते गुहाद्वारे गुहान्तः प्रविश्य च तामिति जगौ ।
__ हे भद्रे ! का त्वं? कथं कुतो वाऽनेन योगिना गृहीता चेति पृष्टा सा स्पष्टमाचष्टे, हे सुभग ! न जाने काऽहं, कुतश्च कथमनेन चाऽऽनीतेति । किंचैनमेवापश्यं, तेन जानामीयं गुहैव स्थानमयमेव च नरोऽहमेव च नारीति जगत् । किंचाऽद्यैतादृशं त्वां विलोक्य जगत्यन्यत्स्थानमन्ये च पुंमांसोऽन्याश्च स्त्रियः सन्तीति [जाने एवं] पेशलालापपरयोस्तयोः समयोचितं सुखमनुभवतो: स योगी गुहाद्वारे समेत्य पूर्वप्रणीतया गुहोद्घाटनसंज्ञयात्मानमागतमज्ञापयत् । तमागतं मत्वा स्थिरो भवेति च मन्त्रिणमभिधाय तत्कालोत्पन्नस्त्रीचरित्रचतुरा सा योगिनी पूत्कारमकरोत् ।
किमभूदिति योगिना पृष्टा सा स्माऽऽह, हे प्रिये! ममोदरं भृशं तुदति, तेन वक्तुमुत्थातुं द्वारमुद्घाटयितुं च नाहमलम्। किं चाऽद्य निशि स्वप्नान्तर्देवतया ममेत्यभाणि, हे पुत्रि! तवोदरे- ऽद्य महती पीडा भविष्यति [अतः] सप्तपुटपट्टकेन बाढं बद्धनयन: पाणिप्रपञ्चितविपञ्चिक: कलस्वरं प्रगुणितगानश्च तव भर्त्ता योनां गुहां सप्त प्रदक्षिणां ददाति, तदैषा पीडा शान्तिं यास्यति तेन तथा विधेयं यथाऽहं सज्जा सती द्वारोद्घाटनं करोमीत्यभिहिते योगिनि तदुक्तं कुर्वति सति मन्त्रिणि च सुखेन गृहं गते सति तयोद्घाटिते द्वारे च स योगी तया सह पूर्ववत्सुखमन्वभूत् ।
अन्यदा विविधवर्णाऽऽकीर्णकन्थाशाली जटामुकुटमाली मृगशृङ्गशोभितनिगरणः सुवर्णमुद्रामण्डितश्रवणः वीणावादनविदुरः प्रभूतभस्माभ्यङ्गभासुरो दण्डमण्डितकरकमलः पादुकापेशलपदयमलः स योगी 'सती रे सती अम घर सती' इति पदं पठन् पुरान्तर्धमंश्च तेन मन्त्रिणा समाहूय किं पठसीति पृष्टोऽवादीत् ‘सती रे सती [अम घर सती]' ततस्तदहङ्कारनिराकरणाय मन्त्रिणाऽभाणि 'तुम्ह घर सती ते अम्ह घर हती' एतद्वचनचमत्कृतो योगी जगौ
'अम्हे वसुं अरण्ये। वने तिहां तुम्हे किहां' ततः पुनमन्त्री ब्रूते स्म 'आंखि पाटा किन्नर वाता । त्यारि अम्हें तिहां'
एतन्निशम्य वज्राहत इव योगी भूमौ पतितो लब्धसंज्ञश्चेति ध्यातवान् । अहो धिगासां मृगनयनानां विलसितम्! या बाल्यादपि यत्नेनैवं रक्षिता साऽपि चेदीदृशी जाता तदाऽन्यासां का गतिरिति स्त्रीषु विशेषेण वैराग्यवान् स योगी कष्टानुष्ठानं विधाय देवोऽजनि । ॥ इति स्त्रीचरित्रे वासवयोगिकथा ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org