________________
५२
श्री कथारत्नाकरे
श्री हेमविजयरचिते
मन्दाक्षं
मदनः
प्रभुत्वमनयः कामित्वमर्थक्षति
र्हन्ति स्वं व्यसनं तपोऽनुपशमः सर्वान् गुणान् मत्सरः ॥ १ ॥ तेन मत्सरिजनः स्वयमन्येषां चानर्थनिदानम्, अत्रार्थे बटुनामद्विजनिदर्शनं, यतः - भवन्ति प्रायशः पापा:, सर्वत्र श्रितमत्सराः ।
व्यधादन्धं बटुः प्राति-वेश्मिकं मत्सरी द्विजः ॥ २ ॥
तथाहि— घनघरट्टनाम्नि ग्रामे मत्सरिणामवधिः दौर्गत्यस्य सेवधिः पापकर्मसु पटुर्बटुनामा द्विजोऽन्यदा भुजङ्गमेनेव नै:स्व्येन पराभूतः सम्भलां स्वमहिलामनुज्ञाप्य धनाभिलाषुकः सन् टीलाख्ये भूयसां योगिनां स्थाने गत्वा सूरनाथनामानमेकं योगिनमाराधितवान् । मज्जनभोजन - शयना - ऽऽसन-संवाहनादिना सम्यग् विनयेन तोषितो द्वादशवर्षान्ते स योग्याह 'हे बाल ! तव किं विलोक्यते ?' इति ब्रुवाणं योगिनं स वक्ति स्म । हे स्वामिन्नभद्राणां भवनं, व्यसनानां वनं, चिन्तायाः कारणं सकलसुखवारणं मम दौर्गत्यमपाकुरुष्वेति प्रोक्तेन योगिना दीयमानामेकां मूलिकामालोक्य स द्विजस्तन्महिमानमप्राक्षीत्, विधिना पूजिता सुरलतेवेयं मूलिका कामितं दत्ते, द्विगुणं च प्रातिवेश्मिकस्येत्यभिधाय ददानं द्विजो जगौ, हे नाथ ! प्रातिवेश्मिकवेश्मनि श्रियं द्रष्टुं न शक्नोमि तेनाऽनया ममालमन्यां यच्छेत्युक्तः सूरनाथः कथितवान् ।
तव भाग्येनेयमेवाऽर्हतीत्यभिहितस्तां विमुच्य स स्वौकसि गतः, तत्र च स्वप्रियायाः सर्वं मूलिकावृत्तान्तमवक् । हे प्रिय ! यथा तव तुष्टिर्भविता तथा करिष्यामीति तया प्रेरितः स चित्रकवल्लीमिव तामानीय तस्यै ददौ । तया तत्प्रियया विधिना पूजितया तयौषध्या मणिसुवर्णादिविभूतिभासुरे सप्तभूमिकसौधे कारिते सति प्रातिवेश्मिकस्य सर्वं द्विगुणं निर्वर्ण्य मत्सरिमुख्यं तं ब्राह्मणाधमं कण्ठपाशेन मर्त्तुमुद्यमं कुर्वाणं सा सम्भला बभाण - हे नाथ ! स्वस्थो भव तव रुचितं करोमीत्युदीर्य सा ब्राह्मणी स्वौकसि पञ्चाशत् महान्धकूपान् परिवारं चैकेनाक्ष्णा काणं तयौषध्या विधापयामास । तत्प्रभावाच्च प्रातिवेश्मिकस्य द्विगुणे जाते तस्य सर्वमपि परिवारमन्धत्वात् कूपान्तः पतनेन दुःखिनं विलोक्य स द्विजस्तुष्टः, क्लिष्टकर्मणा तेनोपार्जित - त- प्रभूतपातकः स कालं कृत्वा नरके ययौ ॥ इति मत्सरे द्विजकथा ॥ ३६ ॥
॥ ३७ ॥ नियमपालने नीलकण्ठकथा ॥ जीवितादप्यधिकत्वेन पालितो नियमोऽपुनर्भवाय भवेत्, यतः -
धमिव चिंतइ धम्मं, जीविअमिव जो वयाई रक्खेइ । सुरतरुमिव सुगुरुपयं, आराहइ तं वरइ सिद्धी ? ॥ १ ॥ स्तोकोऽपि नियमः स्वयं कृतो महानुभावैः पाल्यते, यतः
पाल्यते नियमः सद्भि-र्मनसाऽपि कृतः स्वयम् । प्राव्राजीद्राजपुत्रोऽयं यद्वशात् शबरीयुतः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org