________________
तरङ्ग २/ कथा ३५/३६ व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी,
कीर्तिस्ते मदनाभिराम! कृतकं जाने भयं योषिताम् ॥ १२ ॥ तेनाऽशेषलोकगमनशीलाया ममैवायं जोत्कारो नान्यासामिति तया कथिते पृथिवीपतिरवादीत्, यतः
विश्वेषां वदनानि चुम्बसि सुमस्तोमानिवालिप्रिया । सर्वेषां सदनोदरेषु तनुषे वेश्येव वासस्थितिम् ॥ वात्येव प्रकरोषि विश्ववलये स्वेच्छाविहारं च या ।
सा त्वं केन गुणेन कीर्त्तिवनिते! जोत्कारयोग्या मम? ॥ १३॥ इत्याद्यभिवादिनेव च दूषितायां तूष्णीं गतायां तस्यां चतुर्थ्यपि तथैव नीलवसनाभरणाभिरामा संसाधितानेककामा राजानमब्रवीत्- 'हे सुभग! सकलसुरसंवासाऽहमाशा, ममैव प्रसादेन सर्वोऽपि जनो जीवति, यतः
विश्वाश्चर्यनिबन्धनैर्न हि धनैर्नाऽनिन्द्यया विद्यया । नानालास्यसुभोजनैः परिजनैः प्राज्येन राज्येन न ॥ कामं कामसुखोदयैर्न विषयैर्ना नर्त्तिभिः कीर्तिभि
र्लोको याति यथा सुखं खलु तथा सच्छंसया चाऽऽशया ॥ १४ ॥ तेन निःशेषजगज्जीवातोर्ममैवायं जोत्कारो, नान्याषामिति तद्वचनं समीचीनं चिरं चेतसि विचिन्त्य चतुरचूडामणिः स नरशिरोमणिस्तामिदं जगाद
निष्पुत्रान् वरपुत्रलब्धिविधिभिनि:स्वांश्च वित्तोद्यमैभूयो भेषजभक्षणैश्च सरुजान् मन्त्रप्रयोगैर्जडान्। लोकान् या स्वरसैर्वनावनिरुहान् कुल्येव सञ्जीवये
दाशे! ऽनेन गुणेन जीवितजगज्जोत्कारयोग्या मम ॥ १५ ॥ इति सत्यवादिनं मेदिनीनाथं प्रणम्य प्रकटितसुरीरूपास्ताश्चतस्रोऽपीत्यवदन्, हे देव ! श्री-गी:-कीर्त्याशाभिधाना वयं चतस्रोऽपि देववध्वः, स्वस्वोत्कर्षनिबन्धनोऽयमस्माकं वादोऽद्य भवता निर्णितस्तेनेयमाशा शेषाणामस्माकमपि मान्येत्यभिधाय तामाशां पुरस्कृत्य राजानं च पुष्पा-5ऽभरणादिभिः सत्कृत्य स्वर्गं गतासु तासु राजापि प्रभाते स्वपुरमलञ्चकार ॥ इत्याशायाः प्राधान्ये कथा ॥ ३५ ॥
॥३६ ॥ मत्सरे बटुकथा ॥ ऐहिका-ऽऽमुष्मिकाऽर्थकारणं गुणगणं वनमिव वह्निर्मत्सरो भस्मसात्करोति, यतः
सौहार्दै निकृतिस्तनुं गदगणः प्रज्ञां प्रमादोदयः, सम्पत्तिं कलह: कलामविनयः शीलं वशासङ्गमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org