________________
४९
तरङ्ग २/ कथा ३४/३५ यूयमिति पृष्टे तन्मध्यादेका काञ्चनीयकुण्डल-कटक-केयूर-कङ्कण-कटीसूत्र-तुलाकोटितिलकादिरमणीयाऽऽभरणा कनककान्तिकान्तकरणा मसृणघुसृणसंगतश्रीखण्डमण्डलमण्डितस्तनादिदेहदेशा स्मितचम्पकपुष्पप्रकरपेशलकेशा तपनीयतन्तुस्यूतकञ्चुकचीवरोत्तरीयादिवर्यवसनशालिनी करकलितकनक-कलशशालिनी मत्तमत्तङ्गगजगामिनी कामिनी समेत्य मौक्तिकैरिख दन्तद्युतिसन्दोहैर्भूपतिं वर्धापयन्ती सती ब्रूते स्म- 'हे सुभग! सुरासुरेषु विश्रुता सागरसुता लक्ष्मीरहं, मयाधिष्ठिते पुंसि दोषा अपि गुणाः स्युः, यतः
आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां, मूकत्वं मितभाषितां वितनुते मौढ्यं भवेदार्जवम्। पात्रापात्रविचारणैकविरहो यच्छत्युदारात्मता,
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥ ३ ॥ किंच मया विलोकित एव पुमान् गुणरहितोऽपि गुणसहित: स्यात् । यतःअगुणमवि गुणद्रं निंदणिज्जंपि पजं, जडमवि मइमंतं मंदसत्तंपि सूरं । अकुलमवि कुलीणं रूवहीणंपि रम्मं, नवकमलदलच्छी जं पलोएइ लच्छी ॥४॥ किं बहुना? मयि सत्यामेव सर्वं सांसारिकं सुखं, यतः
तावत्कर्णरसायनं सुखयति श्रोत्रे कवीनां वचस्तावन्मुग्धमृगीदृशां स्मितरसश्चेतः समाकर्षति ॥ तावत्पञ्चमकाकलिं कलयितुं कण्ठः समुत्कण्ठते ।
लक्ष्मीर्यावदवेक्षते क्षणमपि प्रेमोर्मिणा चक्षुषा ॥ ५ ॥ तेन जगदुत्तमाया ममैवायं जोत्कारो नाऽन्यासामिति । तयाऽभिहिते राजा व्याजहार, सदैव जगत्यहृद्यनिन्द्यपरिजनाया दुर्जनाया नाऽयं भवत्या जोत्कारः, यतः
वप्ता ते जडधी रसक्षयकरश्चौर्वानलः सोदरः । स्थानं कण्टककूटकोटिकमलं मित्रं च हालाहलं । गोपेन्द्रः प्रणयी सुत श्चयुततनु-ज्येष्ठोऽपि मद्यप्रिय
स्तत्त्वं केन गुणेन सागरसुते! जोत्कारयोग्या मम॥ ६ ॥ इत्याद्यसङ्ख्यदोषोद्धाटनेनेति तिरस्कृतायां मौनमुपेतायां तस्यां द्वितीया धवलालङ्कारवस्त्रविलेपनहारिणी कुन्दकुमुदकर्पूरकमनीयकायधारिणी वीणापुस्तकमण्डितकरा कमण्डलुधरा राजहंसगामिनी भामिनी भूपतिमभिधत्ते स्म- 'हे सुभग! सकलजगजीवहिताऽहं विधेर्दुहिता सरस्वती, मया सेवितः पुमान् भूपादपि समधिकमान्यः स्यात्, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org