________________
४८
श्री क्यारत्नाकरे
श्री हेमविजयरचिते मूर्खश्चिरं विमृश्याऽपि, विदधात्यसमञ्जसम् ।
धुर्यवक्रविषाणान्त-जटिनाऽक्षेपि मस्तकम् ॥ १ ॥ तथाहि
वटवासग्रामे महेभ्यस्यैकस्य गृहद्वारकुटीरे वर्षासमये स्थितो बोधिशर्मा नाम जटी, प्रतिदिनं वृजिनविषाणं वृषभं गृहान्निर्गच्छन्तं गृहान्तश्च प्रविशन्तं विलोक्य इति दध्यौ, किमस्य शृङ्गान्तर्मम शिरो माति न वेति प्रतिदिनं चिन्तयता तेनैकदा वर्षाऽवसाने चरणाय गच्छतस्तस्य वृषभस्य शृङ्गान्तर्मूर्द्धा निदधे। तदा तत्पराभूतो मदोन्मत्तः सोऽपि वृषभस्तथोच्छलितो यथाऽमुष्य जटिनः पाणि-पाद-श्रवण-नासा-नेत्रादि भृशं भग्नं, किं बहुना? जीवशेषः स जटी भूमौ पतितः, प्रोक्तञ्च लोकैर्धिगिमं मन्दमतिमविमृश्यकारिणमिति । तदा च मातृमुखमुख्यः सोऽपि पौरानिति प्रत्यूचे- 'भोः पौराश्चतुरोऽपि मासान् विमृश्य मयैतत्कृत्यमकारि, तदा कथमहमविमृश्यकारीति? ॥ इत्यविमृश्यकारितायां मूर्खकथा ॥३४ ॥
॥३५ ॥ आशायाः प्राधान्ये विक्रमादित्यकथा ॥ लोको हि यथाऽऽशया जीवति न तथा श्री-सरस्वती-कीर्तिभोगसम्मतवस्तुसंयोगादिभिः । यतः
विश्वाश्चर्यनिबन्धनैर्न हि धनैर्नाऽनिन्द्यया विद्यया । नाऽनालस्यसभाजनैः परिजनैः प्राज्येन राज्येन न । कामं कामसुखोदयैर्न विषयैर्ना नर्त्तिभिः कीर्तिभिः ।
लोको याति यथा सुखं खलु तथा सत्संशया चाऽऽशया ॥ १ ॥ तेन सर्वत्राप्याऽऽशाया एव प्राधान्यम्, अत्रार्थे श्रीविक्रमादित्यनमस्कृताया आशाया: कथा
आशामुशन्ति सुधियः, शोभनां सर्ववृत्तिषु ।
श्रियं वाचं च कीर्तिं च, हित्वाऽऽशां विक्रमोऽनमत् ॥ २ ॥ तथाहि- एकदा परदुःखकातरः परनारीसहोदरः श्रीविक्रमादित्यपृथिवीपतिः शुक्लाश्वापहृतोऽरण्यं प्राप्तः, तत्र च स सहकारतरोरधः स्थितः, अथ त्रियामायाः प्रथमे यामे पुरतो गच्छतीश्चतस्रः सहस्रपत्रनेत्रा: प्रेक्ष्य मत्स्वसार एता इति समुत्थाय तासामेकम् जोत्कारमक रोत् साधारणेनैकेन जोत्कारेण जोत्कारोऽयं ममेति ममेति मिथो विवदमानास्ताः समागत्य श्रीविक्रमादित्यमित्यवोचन्- 'सुभग! कस्या असौ जोत्कारस्त्वयाऽकारीत्युक्तेन राज्ञा का १ RS । मूर्खशिरोमणिः - मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org