________________
तरङ्ग२/ कथा ३३/३४
४७ स्ववेश्म गतवती'। इति योगिनाभिहितमाकर्ण्य तदसङ्गमात्परमखेदमापन्नः सञ्जातस्मरावेश इतीमं थोकं पठति स्म। तथाहि
सौवर्णकं गृहाणैकं, योगिन् ! योगजुषां वर ।।
तया यान्त्यायदादिष्टं तद्वद स्मरशासनम् ॥ १॥ भूयो भूयश्चमं शोकं पठन् प्रतियोकं च योगिपुरः सुवर्णटकं च मुञ्चन् स कुमारो भूतात इव ग्रहिलोऽजनि। तदा च सुवर्णशतमेकं लात्वा गतेऽपि तस्मिन् योगिनि तथैव कुर्वति तस्मिन् पुरः सुवर्णराशिं च विलोक्य विस्मितपूजकाद् ज्ञातव्यतिकरास्तत्र राजादयः सर्वेऽपि पौरा: समागताः, स तु तमेव थोकं भणन् पुरः सुवर्णं च मुञ्चस्तत्रागतान् राजादिपौरानपि कामान्धत्वान्नापश्यत् । यतः
दिवा पश्यति नोलूको, नक्तं काको न पश्यति।
अपूर्वः कोऽपि कामान्धो, दिवा-नक्तं न पश्यति ॥ २ ॥ तदा च तत्रागतेन सुबुद्धिनामाऽत्येन मत्या स्मरविहितोपद्रवं तस्मिन् विज्ञायेति राज्ञः पुरः प्रोचे- 'हे देव! नूनमसौ कयापि स्त्रिया दत्तसङ्केतः कमपि योगिनमत्र स्थितं तदागतिस्वरूपं पृच्छति । तेन सर्वोऽपि पौरीवर्गो यद्येनमेकैकतया पश्यति, तदासौ तन्मध्यात्स्वाभिमतां तां वनितामुदीक्ष्य स्वस्थो भवेदिति'। अथ राज्ञा तथैव कारिते क्रमेण तत्रागतामेकाकिनी तां निभाल्य पुनर्लब्धसङ्केतसंज्ञः स सकलमपि स्वं व्यतिकरं तस्यै स्माह। साऽपि पेशलालाऽऽपादिभिस्तं सुखयित्वाभ्यधात्- 'हे सुभग! केयं धर्मार्थध्वंसकारिणी कामकदर्थना! इति तस्याः सुधाबन्धुरैर्गिरां भरैरेव परमं संवेगमुद्वहंस्तत्रैव गुरोः समीपे तपस्यामादाय तप्तदुस्तपतपाः सिद्धः ॥ इति कामविडम्बनायां कुबेरदत्तकथा ॥ ३३ ॥
॥३४ ॥अविभृश्यकारितायां मूर्खकथा ॥ सर्वत्रापि प्रतीकारं कुर्वतापि भगवता कमलयोनिना मूर्खचित्तसमाधानप्रतीकारो न विदधे, यतः
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो । नागेन्द्रो निशिताङ्कशेन समदो दण्डेन गो-गर्दभौ ॥ व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं ।
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ १ ॥ बहुभिर्वारितोऽपि हि चिरं विमृश्याऽपि मूर्खः सर्वत्राऽसमञ्जसमेव करोति । अत्रार्थे चैकस्य जटिनस्तापसस्य सम्बन्धः, यत:--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org