________________
४६
श्री कथारत्नाकरे
श्री हेमविजयरचिते
स्मेरनयनां तां सुनयनां निभाल्य कुमारो विस्मृतस्वकलत्रविरहः प्रकटितप्रबल - प्रेमाङ्कुरया चतुरया तया समं निर्व्रडमक्षक्रीडामकरोत् । शारिपाशकमण्डनपण्डितया तया तथा क्रीडितं, यथा परस्पराजितयोस्तयोः क्रीडतोरेव प्रातरजनि । तदा च विभातं जातं विभाव्य स्वौकसि गन्तुमुत्सुकां तां स स्माह- 'हे सुभगे ! कदा पुनरावयोः सङ्गम इति ? ' दीपावलिकायामिति प्रतिपाद्य गतायां तस्यां स्मरापस्मारपिशाचगृहीतः स श्रेष्ठिसुतः कदा दीपालिका कदा दीपालिकेति भूयोभूयः कथयन् ग्रहिलोऽभूत् ।
कस्त्वमिति पृच्छतां जनानां कदा दीपालिकेति वदतस्तत्रैव परिसरे पर्यटतो विस्मृतशयना - ऽशन-पानस्य भूतार्त्तस्येवेतस्ततो गच्छतस्तस्य स सार्थोऽपि कतिपयदिनैस्तत्राऽऽययौ । सार्थ-लोकैरपि तैरुपलक्षितो हे स्वामिन् ! कथमिह स्थितोऽसीति पृष्टः कदा दीपालिकेति वदन् पिशाचगृहीतोऽयमिति मत्वा हठेन रथान्तर्निधाय परिचरेण स गृहं नीतः - 'हे पुत्र ! समाधिरस्ति ?' इति पितृभ्यामप्यभिहितः कदा दीपालिकेति वदति स्म । तदनु भूतादिच्छलित इति विज्ञाय पितृभ्यां मन्त्रयन्त्रतन्त्रादिभिरुप - चरितमपि तथाविधमेव स्वपतिं ज्ञात्वा तत्स्त्रिया कमलश्रिया पतिपिता प्रोचे - 'हे तात! किं जातं युष्मत्सुतस्येति प्रोक्तः स सर्वं व्यतिकरं व्याकरोत् । चतुःषष्टिकलालब्धलक्षा प्रतिजननयनपरीक्षादक्षा साऽपि श्रितस्मरशोचने हरिणाहङ्कारमोचने प्रियलोचने विलोक्य नैष भूतादिदोषः किन्तु दीपालिकायामावयोः सङ्गम इति सदामपि दत्तप्रमदया कयापि प्रमदया कृतसङ्केतां दीपालिकां सर्वेषामयं पृच्छतीति कामोन्मत्तं स्वपतिं निश्चित्य प्रोचे - 'हे प्राणप्रिय ! किमिदमभूदिति, तदा कदा दीपालिकेति तेनोक्तं, प्रातदीपालिकापर्वेति सा स्माऽऽह ।
इति मन्त्राक्षरमिव तद्वचनमाकर्ण्य सज्जीभूतः स प्रियापुरो यथाजातमशेषमुदन्तमुक्तवान् । हे प्रिये! अहमधुनैव तत्र यामीति तेनोक्ते साऽभिदधौ हे सुभग ! न दीपालिका नेदीयसी, किं त्वेकादश मासा अन्तराले सन्तीति प्रतिबोधितस्तया समं भोगान् बुभुजे । जातपाटवं कुमारमालोक्य सर्वोऽपि परिवारः स्नुषायां तुतोष । अथाऽन्यदा समुपेयुषि दीपालिकापर्वणि सुवर्णटङ्कानां सहस्रपञ्चकमादाय तुरगारूढ एकाकी सन् गन्धवत्यां गत्वा निशीथो दवीयानिति स श्रेष्ठितः सायमेकस्मिन् देवकुले शेते स्म । मार्गश्रान्तस्य तस्य निर्भरं निद्राऽभ्येति स्म, तदा निशीथे तद्दिनकृतसङ्केता समागता सा तं तत्राऽपश्यन्ती सती, 'सा समेताऽभूदिति ममागमनं पृच्छते नराय त्वया निवेदनीयमिति तत्रस्थितमेकं योगिनं प्रतिपाद्य स्वं धाम जगाम । इतश्च गतनिद्रः स कुमारो निशीथं व्यतीतं विभाव्य तत्र देवीगृहे गत्वा - 'हे योगिन्निह कापि कामिनी किं समेताऽभूत् ?' इति तत्र स्थितं तमेव योगिनं व्याजहार । स योग्यपि तयोद्दिष्टं तम् मत्वा ब्रूते स्म - 'इहैका सुन्दरी निशीथे समागता चैकस्य यूनः पन्थानमालोक्य चिरं चेह मम चेत्यादिश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org