________________
तरङ्ग २/ कथा ३२/३३
॥३३॥कामविडम्बनायां कुबेरदत्तकथा ॥ स्वस्ववर्णोचितार्चनविधिनोपशान्तनिरङ्कशेभ्यः सूर्यादिभ्यः सर्वग्रहेभ्योऽपि पीत-रक्तश्वेत-नील-श्यामवर्णपूजाविधिना प्रकटितप्राबल्य: कामग्रहः क्रूरतरः, यदागमः
सव्वगहाणं पभवो, महागहो सव्वदोसपावड्डी।
कामग्गहो दुरप्पा, जेणभिभूअं जगं सव्वं ॥ १ ॥ तेन शाकिनीडाकिनीभूतप्रेतपिशाचवेतालादिपराभूतानामस्ति प्रतिक्रिया, न तु स्मरवैरिविङम्बितानाम् । यत:
साइणिडाइणिपमुहा, दोसा नस्संति मंततंतेहिं।
न हु विसमाउहदोसो, नस्सइ बहुमंततंतेहि ॥ २ ॥ यतोऽसौ सङ्कल्पयोनिः सुरासुरनरकिन्नरविद्याधरपुरन्दरानपि विडम्बयति, यतः
विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति।
अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ ३ ॥ तेनानङ्गनटिता निपुणा अपि नराः पिशाचगृहिता इव विश्वेषां विस्मयकरीं नानाविधां चेष्टां कुर्वन्ति । यतः
कन्दर्पदर्पवशतो महतामपि स्या-द् ग्राहिल्यमन्धितविवेकविलोचनाब्जम्। स्वर्ण गृहाण वद नाथ! तया किमुक्तं, यान्त्येत्यभीक्ष्णमवदद्वणिजस्तनूजः ॥ ४ ॥
तथाहि- कुबेरपुरे कुबेरस्येव नलकूबर: कुबेरदत्तस्य व्यवहारिणः कुबेरचन्द्रसूनुर्नवोढां कमलामिव प्रीतिकारिणी कमलश्रियं प्रेयसीमोकसि विमुच्य पितृभ्यामनुज्ञातः प्रभूतशकटवृषभ-करभ-तुरगा-ऽश्वतर-खर-कासरादिबहुसार्थयुतः सूरसेनां नगरी प्राप्तः, तत्रापि भूपेन बहुमानितो बहून् व्यापारान् विधाय स्वप्रियाविरहविधुरो दीपावलिकापर्वोपरि स्वपुरं प्रत्यचालीत्। नवस्नेहे हि विरहोऽग्निरिव दहति । यत:
'विरहो वसंतमासो, नवनेहो पढमजुव्वणारंभो।
पंचमगीअस्स झूणी, पंचग्गी को जणो सहइ ॥ ५ ॥ अथ दीपावलिकापर्व भृशमासन्नं, भूश्च भूयसी, तेन सार्थसार्थे स्वपुरं प्रति गमनं दुष्करं विभाव्य स श्रेष्ठिसुत एकाक्येव तुरगारूढः सार्थाग्रतश्चलन्नन्तरालाऽऽगतगन्धवत्यां पुर्यां बहिःस्थिते देवीप्रासादे निषण्णस्तस्मिन्नेवाहनि दीपालिकां विज्ञाय स्वपुरं च दवीयस्तरं मत्वा तां रात्रिं तत्रैवोषितवान्। इतश्च तद्वासिरूपसेनश्रेष्ठिस्नुषा रूपपराजितरम्भादिरूपा रतिस्वरूपा रूपश्रीस्तस्मिन्नेव देवकुले देवीमर्चयितुं गृहीतपूजोपहारा विहितसकलशृङ्गारा करकलित-कनकभृङ्गारा वर्जितान्यपरिवारा स्वकुलाचाराय निशीथे तत्राभ्येति स्म। कुमारावलोकनेन सञ्जातस्मरस्मय१. तुला-माधवानलकामकन्दलाप्रबन्धे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org