________________
४३
तरङ्ग २/ कथा ३०/३१ रतिरिव रतिदायिनी रतिसुन्दरी कन्या, स्मर इव सौभाग्यवांश्च भवान्, इति विविधविषयदर्शिना मया द्वयमद्भुतं ददृशे । किं च भवदुचितां तां गन्धपुरस्वामिनः सूकरो नाम सूनुरद्यतः सप्तमेऽहनि स कुरूपाणां शिरोमणिस्तां परिणेष्यतीति खेदं वहन्नस्मि, तेन त्वं यथोचितं कुरु'। इत्यभीष्टार्थवादिने तस्मै प्रीतिदानं वितीर्य तस्यामेव निशि भूरिधनयुतं तुरङ्गमद्वय-मादाय पित्राद्यैरज्ञातो गृहान्निर्गत्य च देवपुराधिपमन्त्रिपत्नीमहं तव भ्रातेति वदन्मन्त्रिगृहं ययौ।
अथ च रहसि यथाजातं स्वरूपमुक्तवता तेन- 'हे भगिनि! तां भूपपुत्रीमेकशो मम दर्शयेत्यभिहिता मन्त्रिपत्नी भोजनार्थमाहूतां रतिसुन्दरी तस्मै दर्शयामास । अहं तवार्थमागतोऽस्मीतिवादिनं स्मरप्रतिवादिनं तं निभाल्य स्मरातुरा सती लग्नावसरे सायं पुरगोपुरे गृहीतवाजिना भवता स्थेयमिति सङ्केतं दत्त्वा सा कन्या स्वभवनमभ्येति स्म। सोऽपि लग्नदिने तथैव तिष्ठन् विलम्बं जायमानमवलोक्य द्वावपि वाजिनौ बलाहकस्य द्वा:स्थस्य पार्श्वे विमुच्य पुरे प्राविशत्। तस्मिंश्च कुमारेऽन्येन पथा पुरांतः प्रविष्टे सत्यन्येन पथा समेता सा कन्या तमसि सम्यक् तत्स्वरूपमजानाना तत्र स्थितं बलाहकं कुमारधिया 'सज्जो भव इतः सद्यो याव' इत्यभ्यधात् ।
तदा च तयेत्युक्तो बलाहकोऽपि हतमुखो मौनपर एवैकस्मिन् वाजिनि, एकस्मिंश्च वाजिनि कन्या चारुह्य द्वावपि कस्यांचिद्दिशि चलतः स्म। अथ च जाते प्रभाते बलाहकमालोक्य सा कन्या परमं विषादमापन्ना स्त्रीजनानुचितं धैर्यमालम्ब्य भोजनसामग्रयर्थमेकस्मिन्नगरे बलाहकं प्रेष्य, स्वयं च पुरुषवेषमाधायैकाकिनी तुरगयुता धनवासपुरं प्राप्ता तत्स्वामिनः सेवां विधत्ते स्म । अथ रतिसुन्दरकुमार इति नामभाक् सा कन्या [राज्ञा] 'हठेन दत्तां देवदत्तानामराजकन्यां परिणीय पञ्चाब्दी मे भोगनिषेधोऽस्तीत्यभिधाय च सत्रागाराधिकारं करोति स्म।
तदा च कन्या नष्टेति परिणेतुमागतः सूकरः, बलाहकेन समं गतेति चन्द्रसेनः पुरादागतस्तामनालोक्य च द्वा:स्थः, एवं ते त्रयोऽपि खेदमापन्ना योगिनो जाता: पर्यटन्तस्ते धनवासपुरे सत्रागारे भोजनार्थमुपाविशन्। अथ च परिवेषणार्थमागतया तया तानुपलक्ष्य स्वस्ववैराग्यकारणं पृष्टैस्तैः स्वस्वस्वरूपे कथिते सति रहसि चन्द्रसेनमाकार्य स्वं स्वरूपं प्रकटीचक्रे। मां परिणेतुमयमागत इति धिया स्वयं परिणीतां राजपुत्री सूकराय, अनेन सहैकामपि रजनीमध्वनि चलिताऽस्मीति धिया तस्य राज्ञो द्वा:स्थस्य सुतां बलाहकाय दापयित्वा, स्वयं च चन्द्रसेनस्य गृहिणी बभूव । द्वावपि तौ दम्पती प्रान्ते धर्ममाराध्य सद्गतिभाजावभूतामिति। तेन हे प्रिये ! येन सहैकामपि रात्रिमुषिता तस्यापि सा कन्या तोषं चकार, अहं तु त्वया सह वर्षद्वयमुषितवांस्तन्मां कथं मारयसीति तद्वचनैः प्रबुद्धया वेश्यया मुक्तो द्विजः स्वस्थानमगात्। इति कथायां योगित्रयकथा॥३१॥ १ चैकस्मिन् - RP ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org