________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते रक्षितया क्षुरिकया तं व्यापाद्य तद्गृहिण्यभाणि - 'हे सुभ्रु ! त्वत्पतिरसौ दवरकेण बद्ध्वा गवाक्षेणाधस्तान्मुच्यते, पश्चादहमपि तथैवोत्तरिष्यामि । प्रातश्च परिजनेन पृष्टेति भणेर्यन्मत्पतिः सुरूपश्रेष्ठिबन्धुपत्नीमादाय निश्येवानश्यत् । ततस्तथैव विहिते क्वाप्यन्धकूपे तं निक्षिप्य रात्रावेव सुरूपसमीपं समेत्य यथाजातं रात्रिवृत्तान्तमभणत् । अथ सुरूपोऽपि फोफलश्रेष्ठिनं प्रातरागत्य न्यगदत् - 'हे श्रेष्ठिन्नद्य निशि मद्बन्धुरागतस्तेन स्नुषां प्रेष्यतां श्रेष्ठ्यपि स्वस्नुषामुखादवगतस्वपुत्रप्रवृत्तिमभिज्ञायाऽभिधत्ते स्म - 'किञ्चैतत्स्वरूपमहं वेद्मि तथा च त्वमेव वेत्सि, तथा च यद्यन्यः कोऽपि ज्ञास्यति तदावयोर्द्वयोरपि राजदण्डः, तेन रहोवृत्त्यैव भवत्स्नुषास्थाने मत्स्नुषां गृह्यतामित्युदीर्य बहुस्वर्णवितरणपूर्वं तेन दत्तां स्नुषामादाय सुरूपः स्वमित्रेण युतः स्वपुरमगात् । सुरसेनोऽपि तया सह सांसारिकं सुखमनुभूय प्रान्ते सुरूपेण स्वपन्या च सहितो दीक्षामादायाऽऽलोचितदुष्कर्मा सुगतिमाससाद ॥ इति मैत्र्ये सुरूपसुरसेनकथा ॥ ३० ॥
४२
॥ ३१ ॥ उपदेशमहिमायां योगित्रयकथा ॥ कथां निशम्य पापपरायणानामपि धर्मबुद्धिः स्यात् । [यतः- ] शीतांशोरपि शीतला गतमला दुग्धाब्धिफेनादपि । श्रीखण्डादपि पाण्डुराऽतिमधुरा पीयूषपूरादपि ॥ गाङ्गेयादपि तोषकृत् प्रमदकृत् सत्सङ्गरङ्गादपि । स्यान्नैव प्रतिबोधकृत् श्रुतिमतां केषां कथानां प्रथा ॥ १ ॥
नानाऽऽश्चर्यसन्निवेशं जनितान्यभावनिर्देशं सदुपदेशं निशम्य प्रायो जिघांसूनामपि प्रीतिरुत्पद्यते। अत्रार्थे गणिकया मार्यमाणेन माणवकेन द्विजेन कथिता योगित्रयकथा यथाप्रायः स्युः सत्कथां श्रुत्वा ऽसन्तः पापपराङ्मुखाः । योगित्रयकथां श्रुत्वा, वेश्यया मुमुचे द्विजः ॥ २ ॥
तथाहि — चन्द्रपुरवासी दामोदरो नाम द्विजो रोहणाचलस्वामिनो राज्ञः पार्श्वाद्रत्नपञ्चकमादाय स्वोरुदेशे निधाय च पथि गच्छन्महापुर्यां कामसेनायां वेश्यायामासक्तोऽभूत् । सपादकोटिकनकमूल्यमेकं मणि च विक्रीय, तेन धनेन भोगाननुभवन् वर्षद्वयान्ते धनकारणं पृष्टस्तया स द्विजो यथाजातमवादीत् । अथैकदा प्रसुप्तस्य तस्य हृदि समारुह्य तन्मणिजिघृक्षया शस्त्रेण मारयितुमुद्यतां तां पापां 'मदुक्तामेकां कथां शृणु, तदनु स्वरुचितं कुर्या' इत्यधः स्थितो द्विजः कथां कथयति, तथाहि - वसन्तपुराधिपस्य विजयसेनस्य राज्ञश्चन्द्रसेनः सूनुरन्येद्युरुद्याने वाहान् वाहयित्वा सहकारतरोरधः स्थितः, 'क्व क्व किं किमद्भुतं दृष्टवान् ? इति कमपि बहुदेशदर्शिनं व्रजन्तम् पथि पथिकमप्राक्षीत्, सोऽपि नरेन्द्रसूनुं प्रणम्य पुरस्तादुपविश्य मौक्तिकैरिव तं कुमारं वर्धापयन् यथाऽवलोकितं कौतुकं कथयति स्म । हे देव! देवपुरपुरे पुरन्दरस्य राज्ञो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org