SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ४१ तरङ्ग २ / कथा २९ / ३० मत्वा राज्ञा प्रेषितं सुरसेनमादाय पित्रा प्रेरितः सुरूपो यानपात्रमारुह्य रत्नद्वीपं प्रत्यचालीत् । तदा च पयोधावागच्छत्प्रवहणोपरिस्थितामेकां सुरवधूमिव रमणीयां रमणीमालोक्य राजसूनुः स्मरवानभूत्। साऽपि तमालोक्य कामकदर्थिता सती चापमुक्तबाणवेगजित्वरे यानपात्रे स्थिता वलितग्रीवं पश्यन्ती तस्मै स्ववेणीं च दर्शयन्ती स्वस्थानं ययौ । , सुरूपोऽपि स्वेप्सितपदं प्राप्य व्यापारेण धनमर्जयन् दिने दिने क्षीयमानं स्वमित्रं दौर्बल्यनिदानमप्राक्षीत् । तेनापि स्वस्वरूपे कथिते सुरूपः पुनरप्यभाणीत् – 'हे मित्र ! तया यान्त्या यदुक्तं कृतं चेष्टादिकं तद्वद स स्माह- 'अन्यत् किमपि न जाने, परं सा स्ववेणीमदीदृशत्' । [तत् श्रुत्वा तेनोक्तं ] - 'हे बन्धो ! तया वेणीदर्शनेन वेणीपुरपत्तनमिति स्वपुरमज्ञापि तेन स्वस्थो भव अवश्यं तुभ्यं तां मेलयिष्यामि । सुरूपोऽपि वेणीपुरपत्तने गत्वा तद्नेहशुद्धयै नगरदेवतापूजावसरे स्वमित्रं देवकुले न्यवीविशत् । सोऽपि तत्रस्थस्तत्रायान्तीर्बह्वीः कुरङ्गीदृशीः पश्यन् क्रमागतां तामपश्यत् । सापि तमुपलक्ष्य तदग्रे नागवल्लिदलानि तदुपरि च क्रमुकं विमुच्य गृहमगात् । सुरसेनेनैत्य तत्स्वरूपे कथिते सुरूपः प्रोचे - 'ताम्बूलिकपाटके फोफलश्रेष्ठिनः स्नुषाऽस्मीति तया ज्ञापितम् । तेन हे सुहृत् ! त्वं स्वस्थो भव, अधुना तया सह तव द्रुतं सङ्गमो भविष्यति'इति निवेद्य सुरूपः स्वबुद्धिं विधाय फोफलश्रेष्ठिना सह व्यापारसम्बन्धं व्यधात्। ततोऽन्यदा राजसुतो भोजनाय श्रेष्ठिनो गृहे गतो गृहविलोकनव्याजेन गृहान्तर्भ्रमन्नेकां पिहितकपाटामपवरिकां विलोक्य तन्निकटस्थामेकां कामिनीं कपाटपिधानप्रवृत्तिमप्राक्षीत् । श्रेष्ठिनः स्नुषा पतिप्रवासे परपुरुषमपश्यन्ती विजने स्थिताऽस्तीति तयोक्ते स कौतुकव्याजेन द्वारमुद्घाट्य तां निभाल्योपलक्षयति स्म । साऽपि स्मरसोदरमेनमागतं निरीक्ष्य मुमुदे । ततः सोऽप्येतत्स्वरूपं सुरूपाय निरूपितवान् । सुरूपोऽपि कूटलेखदर्शनपुरस्सरं श्रेष्ठिनमभाषिष्ट, श्रेष्ठिन्नहं कष्ठि स्वबन्धुं सहसोत्पन्नकार्यवशात्परद्वीपं प्रेषयन्नस्मि, तेनास्य लघीयसो बन्धोर्गृहिणी यदि मन्निकटे तिष्ठेत्तदा मम शोभा न स्यात्, तेन युष्माकमोकसि तावदेषा तिष्ठतु यावन्मद्बन्धुरेति, श्रेष्ठिनाप्यदः प्रतिपन्नम् । ततः सुरूपोऽपि प्रदोषे कृतस्त्रीवेषं सुरसेनं श्रेष्ठिस्नुषासमीपे मुमोच । ततस्तन्मित्रचातुरीचमत्कृता सापि चञ्चलाक्षी सूर्योदयम- [य]जानाना तेन सह स्वैरं भोगान् भुञ्जाना कालमनैषीत् । एवं च सत्येकदा एकपदे तत्पतिरागतः स्त्रीवेषं तमवलोक्य कामातुरो रात्रौ तद्भोगेच्छया स्ववशां व्याजहार । सोचे- 'हे प्राणेशाऽसौ सुरूपश्रेष्ठिनो बन्धुदयितास्ति, किं चैषाप्यहमिवान्यं पुमांसं नेहते, तेनात्रार्थे भवता कदाग्रहो न विधेयः'।, सोऽवादीत्— 'यदीयमिदं मदुक्तं न विधास्यति तदा बलात्कारेणापीमामहं भोक्ष्ये', इति तन्निर्णयं मत्वा सा इतो व्याघ्र इतस्तटीति सङ्कटे पतिता तस्मै तदुक्तमुक्तवती । सोऽपि प्रोचे - 'हे सुभ्रु ! यदि त्वन्निवारितोऽसौ न तिष्ठति तदा समायातु, समयोचितं विधास्ये', इत्युदीर्य राजसूः प्रगुणीभूय तस्थौ । स श्रेष्ठिसुतोऽपि यावन्निकटे समेति तावत्तेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy