________________
४०
श्री कथारत्नाकरे
श्री हेमविजयरचिते विद्वांसस्तदर्थमजानन्तोऽन्यत्र नगरादौ तदर्थाऽवगमार्थं सर्वास्वपि दिक्षु जग्मुः । तेष्वेको वररुचिनामा द्विजो बहुदिनानि सर्वत्र भ्रान्त्वा स्वग्राममागच्छन्नेकस्य वटस्य कोटरे निशि तस्थौ। तदा तद्वटाधिष्ठायकवटवासिनं [व्यन्तरं तत्पत्नी] वटवासिनी प्राह- 'हे नाथ! कथय चैकां कथां', सोऽवादीत् प्रिये घटकग्रामे 'सुगममपि अप्रशिखे' त्यक्षराणामर्थं विद्वांसो न विदन्ति । तेन कुपितो राजा सर्वानपि तानेकीकृत्योषसि हनिष्यति । तत्र तत्पुत्र-कलत्रमित्रादीनां रुदन-करुणस्वरविलापादिकौतुकानि भविष्यन्ति।
तेन च प्रातस्तत्र गमिष्यामि'। सा स्माह- 'हे नाथ ! कोऽर्थस्तेषामक्षराणां?' 'रात्रौ न वक्तव्यमिति नाभिधास्ये', तेनेत्युक्ते परितो विलोक्य बाढं निर्बन्धेन पृष्टस्तया सोऽभाषिष्ट ।
'अ' इति अनेन तव पुत्रस्य, 'प्र' इति, प्रसुप्तस्य वनान्तरे। ___ 'शि' इति, शिखामाक्रम्य पादेन, 'ख इति' खड्गेन निहतं शिरः ॥ १ ॥
इति तदर्थं तत्रस्थो वररुचिरश्रौषीत् । ततः स्वपुरमागत्य श्रेष्ठिनं तं च नापितमाहूय राजाग्रे तमर्थं स कथितवान् । स राजापि तमर्थं सत्यं विज्ञाय तं दिवाकीर्तिं न्यग्रहीत् । अचलोऽपि तत्सर्वं पुत्रधनमादाय स्वधामाजगाम। ॥ इति रात्रौ मन्त्रो न कर्त्तव्य इत्यर्थे वररुचिद्विजकथा ॥ २९ ॥
॥३०॥ मैत्रीविषये सुरूप-सुरसेनकथा ॥ प्रभूतैरपि पुण्यैः सन्मित्रं दुष्प्राप्यं, यतः
येन तेन सुकृतेन कर्मणा, भूतले हि सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यै-र्लभ्यते पुरुषरत्नमुत्तमम् ॥ १ ॥ यतः सन्मित्रप्रसादतो राज्यभोगादिसामग्री सुकरा, यतः
सम्पत्तिप्रकरस्तदीयसदनाऽऽकाशे पतङ्गायते। चातुर्यं च तदीयदेहविटपिप्रान्ते विहङ्गायते ॥ भोगस्तत्करकेलिपङ्करुहिणीक्रोडे च भृङ्गायते।
मित्रं दक्षतमं यदीयनिकटारण्ये कुरङ्गायते ॥ २ ॥ अत्रार्थे मित्रद्वयकथा
सिद्ध्यन्ति तस्य कार्याणि, सहृदो यस्य धीधनाः ।
भेजे राजसुतो मित्रात्, फोफलश्रेष्ठिनः स्नुषाम् ॥ ३ ॥ तथाहि- रम्यमन्दिरे पुरे रूपसेनो नाम राजा, सुरसेनो नाम च तत्पुत्रो वसति स्म । तत्पुरवासिनो मल्लश्रेष्ठिनः सूनुः सुरूपो नाम राजसुतेन मैत्रीमसूत्रयत् । अथ तौ शयनभोजनमज्जनयानोपवेशनादि सर्वं सहैव सृजन्तौ कालं गमयामासतुः । मित्रं विना प्राणान् धर्तुमक्षम १A सुरसेनो नाम. मु. P. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org