________________
तरङ्ग २/ कथा २८/२९ ॥ २९ ॥ रात्रौ मन्त्रणात्यागे श्रीवररुचिद्विजकथा ॥ मन्त्रणस्थानं बहुद्वारादिदोषरहितमेव वरीयस्तरं, यतःमन्त्रस्थानमनाकाश-मेकद्वारमसङ्कटम् । निःशंकादि च कर्त्तव्यं, दूरसंस्थैरयामिकम् ॥ १ ॥ मन्त्रस्थाने बहुस्तम्भे कदाचिल्लीयते परः । सगवाक्षे प्रतिध्वान-श्रुतिः स्यात्प्रतिभित्तिके ॥ २ ॥
शून्याधोभूमिके स्थाने, गत्वा वा काननान्तरे।
मन्त्रयेत्सम्मुखं सार्द्ध, मन्त्रिभिः पञ्चभिस्त्रिभिः ॥ ३ ॥ तेनेदृशेऽपि मन्त्रस्थाने दिवैव विलोक्य मन्त्रो विधेयो, रात्रौ तु सर्वथा न कर्त्तव्यः । अत्रार्थे वररुचिकथा, दिवा निरीक्ष्य वक्तव्यं, रात्रौ नैव च नैव च। सञ्चरन्ति महाधूर्ता, वटे वररुचिर्यथा ॥ ४ ॥
___ तथाहि- घटकग्रामवासिनोऽचलश्रेष्ठिनो विमलनामा सुतोऽतीवनिपुणो नापितानुचरेण युतो धनोपार्जनाय परदेशमगात् । स च विमलो भाग्योदयेनोपार्जितप्रभूतवित्तो गृहं प्रतिचलन्नेकस्मिन्नरण्ये प्राप्तः । तदा चिरपोषितोऽपि नापितस्तद्धनलुब्धस्तन्मारणोपायं चिन्तितवान्। पापमूलं लोभं धिगस्तु । यतः
मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः । क्रोधाग्नेररणिः प्रतापतरणिप्रच्छादने तोयदः ।। क्रीडासद्म कलेविवेकशशिनः स्वर्भाणुरापन्नदी
सिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ ५ ॥ तथैकदा लोभाभिभूतोऽसौ पापिनापितस्तस्यैकस्य तरोरध: सुप्तस्य केशपाशं पादेनाऽऽक्रम्य मारणाय हृदयोपरि तस्थौ । तदा प्रबुद्धो विमलस्तं तथोद्यतमूचे- 'हे भद्र! सर्वमिदं धनादि गृहाण, मां च मा मारय', ततो नापितः प्राह- 'अहं भवन्तमवश्यं हनिष्यामि, तेनान्यकिमपि वद' ततो 'यद्येवं तर्हि मत्पितुः 'अप्रशिखेति' वर्णचतुष्टयं देयमि'त्युदीर्य स्थितं तं निहत्य तद्विभवमादाय गृहागतस्तत्पित्रा पुत्रोदन्तं पृष्टः स नापितोऽभाषिष्ट- 'हे श्रेष्ठिन् ! पथि तस्करैस्तव सुतोऽमारि, कण्ठगतजीवितेन तेन तुभ्यम् 'अप्रशिख' इति वर्णचतुष्टयी दत्तास्ति'। अचलोऽपि तान्यक्षराण्यादाय गृहागतः कृतपुत्रोर्ध्वदेहिक: कोविदैर्विचार्यमाणमपि यदा तदर्थं नाऽज्ञासीत्तदा पुत्रमरणवार्ताकथनपुरस्सरं राजानं व्यज्ञपयत् ।
राजापि ग्रामदानादिना मानितान् स्वान् पञ्चशतपण्डितान् बभाषे- 'भोः पण्डिताश्चेत् षण्मासान्तरे तदर्थो भवद्भिर्नाभिधास्यते, तदा सकुटुम्बानां युष्माकं निग्रहं विधास्यामि । ततस्तेऽपि १. तुला- भोजप्रबन्धे - अधिकारः पू ॥ २. तथोद्यतं तमूचे RS ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org