________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
तेन सुकृतं कृतवतामपि कलिरनर्थाय भवति । अत्रार्थे द्विजकथा यथाकलौ नीतिप्रवृत्तानां, प्रायोऽनर्थपरम्परा । दुःख्यभूच्चिर्भटीमूले, द्रव्यमोक्ता यथा द्विजः ॥ ३ ॥ तथाहि — कलिकाले मथुरापुरीतो माहेश्वरसङ्घो द्वारिकाया यात्रार्थं निर्ययौ । मार्गे चाटतो यात्रिका रत्नपुरपरिसरे 'निर्धनिकेभ्यः क्षेत्रेभ्यो यथेष्टं शाकाद्यर्थं पत्राणि फलानि पुष्पाणि चाऽऽददिरे ।
I
३८
तश्च तथाकुर्वतो विलोक्य नीतिमार्गधरस्य भूधरस्य द्विजस्य सारथिः स्वामिनं स्माह'हे देवाऽहमपि यात्रिकलोक इव चिर्भटीफलान्याददे, भूधरोऽभिदधे स्वाम्यदत्तं भवता किमपि फलादि नाऽऽदेयं, चेदादित्सुस्तदा चिर्भटीफलमूल्यं मूले बद्ध्वा समादत्स्व' तेन च तथैव कृते पुरासन्ने एकस्मिन् प्रदेशे सङ्खे चोत्तीर्णे यावत्स सारथिरन्नं पचति तावद्भूधरस्तानि फलानि छेत्तुमुपचक्रमे। इतस्तया क्षुरिकया कृत्तकण्ठं श्रवद्रक्तं स्वकरस्थं सद्यः प्रसूतमेकमर्भकं, पुरस्तादेकां च रमणीं स द्विजोऽपश्यत् । तदा मुक्तकेशा हृदयस्थलमाघ्नाना विलापपरायणा बाष्पायितलोचना सा सुलोचना तं द्विजमुवाच - 'रे पापिष्ठ ! रे कर्मचाण्डाल ! चाण्डालानामप्यकृत्यमिदं बालहत्याकर्म त्वमकार्षीः, किंच निरागसो ममैनं शिशुं निहत्येदानीं क्व यास्यसीति विलपन्त्या कुपितया तया विज्ञप्तस्य राज्ञः पुरुषैर्यष्टिमुष्ट्यादिभिर्निहत्य बाढं बद्ध्वा कण्ठबन्धितबालं तं द्विजं पुरस्तादानीतं विलोक्य कुपितो राजा प्रोवाच, शूलायां निवेश्यतामसौ कर्मचाण्डालः, इति श्रुत्वाऽपि स द्विजः विहित स्मितः अजनि, तं विप्रं कृतस्मितं वीक्ष्य मतिनिधिना मन्त्रिणा चिन्तित सर्वोऽपि मरणाद्विभेति, असौ तु किं हृष्यतीति मत्वा 'वद स्मितहेतुमि 'ति मन्त्रिप्रोक्तः स द्विजो यथाजातं स्ववृत्तान्तं सर्वमचीकथत् ।
यावत् राजा चिर्भटीमूलात्तद्धनमादाय तत्सर्वमपि विप्रोक्तं प्रत्येति तावन्न बालं न चाबलां, परं कण्ठबद्धफलं तं द्विजं पुरस्ताच्चैकं देवमपश्यत् । किमेतदिति विस्मयवन्तं तं नृपं स देवोऽवादीत्, हे देवाहं पापमूर्त्तिः कलिकालः तेन पुण्यवन्तं न्यायवन्तं पीडयामि, अमुना चातीवविरुद्धाचरणनिकाये मद्राज्ये वसता मद्वैरिणः कृतयुगस्य कृत्यमकारि, ततश्च कुपितेन मयायं पीडितः । उक्तं च
कलियुगमध्योत्पन्नाः, कृतयुगमध्यानुसारिणः कस्मात् ।
इति कोपादिव कलिना पीड्यन्ते साधवः सततम् ॥ ४ ॥ इत्याकर्ण्य राज्ञा विसृष्टो भूधरः स्वधाम जगाम ॥ इति कलिकाले भूधरद्विजकथा ॥ २८ ॥ १. 'न धणीयाता' इति गूर्जरभाषायाम् ॥ २. RSI निरागसमेनं मे शिशुं - मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org