SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तरङ्ग २ / कथा २७/२८ सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम । ॥ तथापि कुरुते वाञ्छां, मनः षष्ठेऽपि नारद! ॥ ६ ॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः । तेन नारद! नारीणां सतीत्वमुपजायते ॥ ७ सुरूपं पुरुषं दृष्ट्वा पितरं भ्रातरं सुतम् । योनिः क्लिद्यति नारीणा-मामपात्रमिवाम्भसा ॥ ८ ॥ वर्षा कष्टतरः कालो, जीवनाहेतुवल्लभः । तेन नारद! नारीणां । भर्त्ता भर्तेति वल्लभः ॥ ९ ॥ नाऽग्निस्तृप्यति काष्ठानां, नाऽऽपगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ १० ॥ तस्यामित्थं वदन्त्यां प्रथमे सत्ये अङ्कुरो द्वितीये पत्राणि, तृतीये शाखाः, चतुर्थे मञ्जर्य:, पञ्चमे च पचेलिमानि चूतफलानि प्रादुरभूवन् । तदा पुनरपि स्त्रीपुंसोर्मिथः सङ्गे दोषं दर्शयन्ती द्रौपदी प्रोवाच अग्निकुण्डसमा नारी, घृतकुम्भसमो नरः । तेन नारद! नारीणां संसर्गं परिवर्जयेत् ॥ ११ ॥ सर्वे पौरास्तदाकर्ण्य स्वधामान्यगुः । ऋषयोऽपि तैराम्रैर्यथारुचिविहितपारणाः स्वस्थानं जग्मुः । राजाऽपि तेन यथारुचिकारितेन पारणेनाऽऽत्मानं धन्यं मन्यमानश्चिरं राज्यमन्वशात् ॥ इति सत्यवचने द्रौपदीकथा ॥ २७ ॥ ॥ २८ ॥ कलिकालविषये भूधरद्विजकथा ॥ प्रकटितपापमार्गे कलियुगे सर्वं विपरीतं । यतः "" सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायु: । परेषु तोषः स्वजनेषु रोषः, पश्यन्तु लोकाः ! कलिकौतुकानि ॥ १ ॥ विषमतरग्रीष्म इव दुस्सहो हि कलिः, यतः - विधत्ते यत्तोषं जडपरिचितेर्गो: पतिकराः । कठोरा जायन्ते कथमपि न तृष्णा विरमति ॥ मुदे दोषारम्भो भुवि भवति वैरस्य घटना । किमेष ग्रीष्मः किमुत कलिकालः प्रसरति ? ॥ २ ॥ १ - स्त्रीपुंसयोर्मि - AHRS II Jain Education International ३७ For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy