________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥ २७ ॥ सत्यवचने पुराणोक्ता द्रौपदीकथा॥ सुखैषिणः प्राणान्तेऽपि मृषा न भाषन्ते, यतः
राज्यं यातु श्रियो यान्तु, यान्तु प्राणा विनश्वराः ।
या मया स्वमुखेनोक्ता, वाचा मा यातु शाश्वती ॥१॥ किं चासत्यवचनाल्लोकेऽप्यविश्वासः, यतः
असत्यमप्रत्ययमूलकारणं, कुवासनासद्म समृद्धिवारणम्।
विपन्निदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम् ॥ २॥ तेन समीचीनवचनमुच्चरतां विश्वासकीर्त्तिकौमुदि धवलयति विश्वोदरम् । यतः
विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं । मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् ॥ श्रेय:संवननं समृद्धिजननं सौजन्यसञ्जीवनं ।
कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ ३ ॥ सत्यवादिनां वाऽचिन्त्यो महिमा, अत्रार्थे पुराणोक्ता महासती द्रौपदीकथा यथा
अचिन्त्यमाहात्म्यकरं महान्तो, वचः समीचीनमुदीरयन्ति।
यल्लोकवाक् पाण्डुसुतप्रियायां, सत्यं वदन्त्यां फलति स्म चूतः ॥ ४॥ तथाहि
हस्तिनागपुरे भीमादिभिः सहोदरैः स्व-स्ववारके महासतीद्रौपद्या च सार्द्ध सुखं सेवमानैः सह राज्यं पालयति युधिष्ठिरनृपे भोगाननुभवति सति एकदा माघमासे तीर्थयात्रायै गगनमार्गे गच्छन्तोऽष्टाशीतिसहस्राणि मुनयो हस्तिनागपुरोधानमवातरन् । वनपालादवगततदागमनेन राज्ञा पारणार्थमभ्यर्थितास्ते ऋषयो बभाषिरे, – 'हे धर्मपुत्र! अद्यदिनसम्भवैः सहकारफलैश्चेत्पारणं कारयसि तदा तवौकसि पारयामो नान्यथेति'। राजाभिदधे- हे साधवः ! समयं विना दुर्लभानि रसालफलानि, तेनान्येन परमान्नाऽऽदिना स्वरुचितेन भोजनेन पारयत' तस्मिन्नेव क्षणे स्वैरं भ्रमन् कौतुकप्रियो नारदमुनिरेत्य राजानं व्याजहार,- 'हे राजेन्द्र ! यदि भवत्पट्टराज्ञी सतीशिरोरत्रं द्रौपदी पौरपूर्णायां पर्षदि पञ्च सत्यान्यभिधत्ते तदा समयं विनाप्याम्रफलानि प्रादुर्भवन्ति'। राज्ञापि तदङ्गीकृतेऽन्तःसभां समेतां द्रौपदी नारदोऽवादीत्
पञ्चतुष्टिः सतीत्वं च, सम्बन्धे चातिशुद्धता ।
पत्यौ प्रेम मनस्तुष्टिः, सत्यपञ्चकमुच्यताम् ॥ ५ ॥ इत्युक्ते मृषोक्तिभीरुद्रौपदी सती दुष्प्रकाश्यमपि स्वचरित्रं पौरपुर: प्रकटयन्ती शोकपञ्चकेनपञ्चापि सत्यानि वदति स्म, तद्यथा१. तुला- विक्रमचरित्रे शुभशीलगणिकृते सर्ग ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org