________________
।
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥२५॥मर्मकथने वल्मिकोदरसर्पकथा ॥ ते धन्या ये परमर्माणि पिदधति, यतः
कप्पासह सारिच्छडा, विरला जणणी जणंति ।
निअअंगह कड्डेवि गुण, परगुज्झह ढंकंति ॥ १ ॥ परमर्मप्रकाशने हि तेन विरोधः, यतः
संतेहिं असंतेहिं, परस्स किं जंपिएहिं दोसेहिं ।
अप्पा पडइ किलेसे, सो हु अमित्तो कओ होइ ॥२॥ तेनाऽऽस्तां परमर्मप्रकाशनं, स्वजातीयानामपि मर्मकथनेऽनर्थपरम्परा । अत्रार्थे पञ्चाख्यान-कथा यथाये परस्परमर्माणि, प्रवदन्ति नराधमाः । ते स्वयं निधनं यान्ति वल्मिकोदरसर्पवत् ॥ ३ ॥
तथाहि- प्रतिष्ठानपुरे शौर्यसुन्दरनामराजा, सुन्दरीनाम्नी च तस्य राज्ञी, दुर्विनीतेनाऽश्वेनाऽन्येधुररण्ये राजा निन्ये, तत्रैकस्य तरोरधः श्रमवशानिर्भरं प्रसुप्तस्य तस्य मुखे मनुष्य[ मुख]वासि--जातिसम्भवो भुजगः प्राविशत् । ततः पश्चादागतेन कटकेन राजा स्वौकस्यानीतो जठरस्थाऽहिसम्भवया पीडया शौर्यसौभाग्योद्यमनाशपुरस्सरं दिने दिने क्षाम: समजनि । महावैद्योपदिष्टैर्बहुभिरप्युप-चारैरजातसमाधिः स्वजीवितोद्विग्नः सपरिजनः स राजा करपत्रमोचनाय गङ्गामधिगच्छन् वर्त्मन्येकस्य वटस्याधस्तात्सुष्वाप ।
तदा चैकान्ते निर्भरं निद्राणे तस्मिन् पवनभक्षणाय मुखे निर्गतमहिं निकटवर्त्तिवल्मिकान्निर्गतो भुजङ्गो बभाषे– 'रे पापिष्ठ साधम! मा विनाशयैनं पञ्चमलोकपालं, निर्गच्छ तस्योदरात्, किं करोमि? सकाञ्जिकेन कटुकचिर्भटीमूलेन भवद्विनाशोपायं जानन्नस्मि, परं स कोऽपि नास्ति यत्पुरो वदामि।' इति श्रुत्वोदरसर्पस्तमवादीत् ‘रे पापिष्ठ! किं करोम्यहमपि बिलक्षिप्तेनोष्णतैलेन भवन्तं निहत्य भवन्निकटवर्त्तिनो निधेरादानं विदन्नस्मि, परं स कोऽपि निकटवर्ती नास्ति यत्पुरः कथयामि'। एवमनयोः परस्परं वदतोर्मर्म निशम्य नृपनिकटवर्तिनी राज्ञी तेनैव विधिनोदरसधैं निहत्य राजानं नीरुजं विदधे, तेनैव च विधिना वल्मिकफणिनं विनाश्य च निधानमाददे ॥ इति मर्मकथने वल्मिकोदरसर्पकथा ॥ २५ ॥
इति पं० श्रीकमलविजयगणिशिष्य श्रीहेमविजयगणिविरचिते कथारत्नाकरे प्रथमस्तरङ्गः समाप्तः
॥ श्रीरस्तु ॥
१ वाल्मि० AHRS एवमग्रेऽपि ॥ २ AHRSD I मध्यमलो मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org