________________
तरङ्ग १/ कथा २३/२४
॥२४ ॥ मतिविषये शृगालकथा स्वपरार्थपरम्पराप्रपञ्चने पटीयसी पेशलप्रज्ञैव । यत :
श्रियं प्रसूते विपदं रुणद्धि, स्वं पापपुजैर्मलिनं प्रमार्टि ।
संस्कारयोगाच्च परं पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः ॥१॥
तेन बलवतां कोटिभिरपि स्वबलेन यत्कृत्यं न विधीयते, तदेकेनापि धीमता स्वधिया विधीयते । अत्रार्थे पञ्चाख्यानकथा यथा
बलतो महती बुद्धि-स्तत्कालं जायते यदि ।
विगोपितौ कपिव्याघ्रौ, शृंगालेन बलं विना ॥ २ ॥ तथाहि- अतिभीमनामारण्ये कुरण्टाह्वः शृगाल आसीत् । तं च कुरण्टा नाम तत्पत्नी गर्भिणी सत्यवादीत्- 'हे स्वामिन्नहं गर्भिण्यस्मि, तेन प्रसूतये स्थानं विलोकय' सोऽभणद्विलोकयन्नस्मि।
___अथैकदा सा स्वपतिना सहारण्ये भ्रमन्ती व्याघ्रगुहान्तिकं प्राप्ता । सा पतिं प्राह- 'हे स्वामिन्नागतप्रसवसमयाऽहमितः पदमपि गन्तुं न शक्नोमि,' सोऽवददस्यां गुहायां प्रसूष्व, तया च तथैव विहिते शृगालस्तामशिक्षयत्, --'हे कुरण्टे! मन्नाम रणभञ्जनेति वाच्यं, त्वन्नाम चारिवज्राग्निरिति वक्ष्येः । व्याघ्र चागते शिशू रुदितौ कार्यो। रोदननिदानं च पृष्टा क्षुधितौ स्त इति वदेः'। इति तामनुशास्य बहिःस्थः स पुच्छाच्छोटनेन पाटितभूपीठं व्याघ्रमायान्तमालोक्य कुरण्टामवदत्- 'हे अरिवज्राग्ने! कथं रुदत: शिशुकौ ?' सा स्माह- 'हे रणभञ्जन ! बालकौ क्षुधितौ स्तः।' स प्राह- 'तर्हि मौनं कारय समागच्छन् भावी व्याघ्रः, तत्पिशितेनेमावर्भको तोषयिष्यामीति श्रुत्वा व्याघ्रो दध्यौ यदसौ कोऽपि महान् श्वापदो ज्ञायते, यतोऽनयोरभिधे अपि दुस्सहे, ततो नास्त्यनया गुहया कृत्यमिति मत्वा स द्रुतं पश्चाद्ववले।
सर्वमप्येतद्व्यतिकरं विलोक्यैक: कपिस्तरोरुत्तीर्य पृष्टतो गत्वा व्याघ्रमूचे,- 'हे शार्दूल! मा याहि, पश्चाद्वलस्व, नासौ कोऽप्यन्यः श्वापदः, किन्त्वेतौ शृगालौ दम्पती स्तः, अनेन धूर्तशृगालेन धिया त्वं वञ्चितोऽसि' । व्याघ्रो व्याजहार, नाहमेष्यामि, भवानपि कोऽपि तदीयोऽनुचरोऽस्ति, तेन मां मारयित्वा त्वं प्रणश्य यास्यसि । तदा कपिः प्रोचे तावयोः कण्ठावेकेन पाशेन नियन्त्र्य तत्र गमिष्याव:, शार्दूलेनापि तत्प्रतिपन्नम्। ततश्चैकेन पाशेन कीलितगलावेवायान्तौ विलोक्य शृगालो दध्यौ, नूनं दृष्टमच्चेष्टितेन दुरात्मना कपिनाऽयमाऽऽनीत इति विचार्य तथैव कुरण्टां प्राह, तयापि तथैवोक्ते सोऽवदन्मौनं विधेहि, प्राणप्रियो मम मित्रं वनौका व्याघ्रमादायाधुनैवागच्छन् भविष्यतीति श्रुत्वा शार्दूलो जीवग्राहं प्राणशत्, तद्गलकीलितः कपिरपि कण्टकजालान्तर्भग्नवपुरसुखास्पदं जज्ञे । ततः स कुरण्टोऽपि निष्कण्टकत्वेन तस्यामेव गुहायां बालकौ प्रपाल्य स्वाश्रयमाससाद ॥ इति मतिविषये शृगालकथा ॥ २४ ॥ १. तुला- बलथी बुद्धि आगली, जो उपजइ तत्काल । वानरसिंह विगोविया, एणि एकलडइ आज ॥ इति प्रीतिविमलगणिकृत चम्पकश्रेष्ठिकथायां पृ. १६॥ २. चाऽग्निवश्रा AHR ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org