________________
३२
श्री कथारत्नाकरे
श्री हेमविजयरचिते स्वैरं रन्त्वाऽधुना समागतोऽसि ? तेन प्रातर्भवच्चरित्रं सर्वलोकानां पुरः प्रकटीकरिष्यामि' इति स्त्रीचरित्रसङ्कटे पतितः सोऽवदत्- 'प्रिये! तव विरुद्धं किमप्यहं न वक्ष्ये, इत्यर्थे भूयांसः शपथाः'! ततस्तयोदघाटिते कपाटे सोऽन्तः प्रविवेश । ततः परं सा सुरूपापि मुक्तस्वैरविहारा भर्तरि धृतदृढस्नेहा गृहवासमपालयत् ॥ इति स्त्रीचरित्रे मुकुन्दपत्नीकथा ॥ २२ ॥
॥ २३ ॥ मित्रद्रोहे शृगालकथा ॥ कृतघ्नं [नरं] धिगस्तु यः शुनोऽपि तुलां न लभते । यतःअशनमात्रकृतज्ञतया गुरो-र्न पिशुनोऽपि शुनो लभते तुलाम्। अपि बहूपकृते सखिता खले, न खलु खेलति खे लतिका यथा ॥ १ ॥ [द्रुतविलम्बितम्]
तेन स्वमित्राद्युपकारमवमत्य मित्रपराङ्मुखाय खलाय 'दैवमपि वैपरीत्यं भजते, अत्रार्थे पञ्चाख्यानकथा, यथा
हिताय यो हितो नैव, तस्माद्देवं पराङ्मुखम्।
मृगाय प्रहितं शस्त्रं, गोमायोर्मस्तकेऽपतत् ॥ २ ॥ तथाहि- शालिग्रामादासन्नवर्त्तिनि पुराणनामवने शृगाल-हरिण-काकास्त्रयोऽमी सुहृदो वसन्ति स्म । तेषु च स्वस्वभक्ष्यस्थानकथनेन मिथःकृतभक्तिष्वेकदा काकेन निवेदिते यवक्षेत्रे यवांश्चरितुं हरिणो ययौ । हरिणभक्षितान् यवान् विज्ञाय द्वितीयेऽहनि क्षेत्रपतिप्रगुणितपाशे यवांश्चरितुं गच्छन् मृगो न्यपतत् । तदा च तदन्वेषणायागतः काकस्तं तथावस्थं विलोक्य मित्रपीडापीडितः स्वमित्रं गोमायुमुपेत्येति प्रतिपादितवान्– 'हे मित्र! पाशान्त:पतितमावयोमित्रमेणं तीक्ष्णतरैः स्वदन्ताग्रैः पाशं छित्वा कष्टान्मोचय'। [तत् श्रुत्वा] मित्रद्रोही स दध्यावहो हरिणः कस्य मित्रं? किं कृत्यं च ममास्य मोचनेन? मृतस्यास्य पिशितेन दिनद्वयं त्रयं वा तृप्तिर्भविता मत्वा शृगालोऽवोचत् 'हे काक! वार्द्धक्येन जर्जरदशनोऽहं पाशं छेत्तुं नाऽलम्। तेनेत्युक्ते वायसः कुरङ्गाभ्यर्णमुपेत्य स्माह- 'हे मित्र! क्षेत्रपतावुपेते श्वासं निरुद्धय पाशच्छोटनान्तं यावत्त्वं मृत इव भूयाः, यदा च छोटितबन्धनं त्वां हित्वा स दूरे याति, तदा शनैरुत्थाय भृशं त्वरेथा' इति शिक्षा प्रदायैकस्मिन्नासन्नतरावुपविष्टे द्विके प्रातराशाय गृहीतभक्तोंऽसस्थितकुठार: क्षेत्राधिपतिरागात्, तं च मृगं मृतं विज्ञायैकस्मिन्नश्मनि भक्तं विमुच्य तद्वन्धनानि शनैरपाकार्षीत्।
तदा च सर्वथा छिन्नपाशं तं कुरङ्गं ज्ञात्वा स वायसस्तद्भक्तोपरिष्टादुपाविशत् । अथ सर्वथा निर्जीवं तं मृगं मत्वा यावत्स द्विकोड्डायनाय याति, तावत्तं दूरगं मत्वा हरिणः फालां दत्त्वा दधावे, धावते च तस्मै हरिणाय कुपितेन हालिकेन प्रहितेन तेन पशुना स्वमित्रमृगमांसलुब्धस्यान्तरालजालान्त:स्थितस्य मित्रद्रोहिणः शृगालस्य शिर: पुस्फोट, स्फुटितशिराश्च परासुरभूत् । तौ च काकहरिणौ स्वास्पदं प्राप्तौ मिथो भक्तिं कुर्वाणौ सुखिनौ बभूवतुः ॥ इति मित्रद्रोहे शृगालकथा ॥ २३ ॥ १. दैवोऽपि - AHS ॥ २. “दैवः प° AHS ॥ ३. प्रात:काले भोजनाय ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org