________________
३१
तरङ्ग १/ कथा २१/२२ महिलाकूडचरित्तं, बंभ पुण पार न जोडइ । दिनि डरपइ दोरडइ, रयणि विसहरफण मोडइ ॥ १॥ उंदरथी ऊधसइ, कानि धरि केसरि साहइ । उंबरि चढती अडवडइ, चढइ डुंगरि अणिआलइ ॥ २॥ सात समुद्द लीला तरइ, सुक्की नई बुड्डवि मरइ ।
रामकवीसर इम कवइ, स्त्रीविसास मत को करइ ॥३॥ अत्रार्थे मुकुन्दश्रेष्ठि-पत्नीकथा यथा
दुश्चिन्त्यं चरितं स्त्रीणां, यतः श्रेष्ठिप्रिया पुरा ।
कूपे निक्षिप्य पाषाणं, स्वदोषं धनिके न्यधात् ॥ ४ ॥ तथाहि- बोदरग्रामे केशवमुकुन्दनामानौ द्वौ सोदरौ श्रेष्ठिनौ वसतः स्म। तयोश्च लघीयसो मुकुन्दस्य सुरूपा नाम जाया, अपरस्य च रूपिणीनामगृहिणी स्तः।
तथा च मुकुन्दः स्वगृहादासन्नवर्त्तिनि स्वहट्टे शेते, तत्प्रियापि च गृहकृत्यं विधाय रात्रौ शयनाय तत्रैव हट्टे प्रत्यहं याति । परं स्वैरिणी सा सुरूपा प्रदोषे एव पतिविपणिशयनदम्भेन गृहान्निर्गत्य स्वैरं निरङ्कुशेन स्वाभिमतोपपतिना चिरं रत्वा कदाचित्प्रथमे कदापि द्वितीये कदापि तृतीये यामिनी यामे तत्र समायाति । [अथ मुकुन्दस्तामाह-] 'हे प्रिये! किं तव भूयान् विलम्बोऽहर्निशं जायते?' इति पृष्टा साभाषिष्ट- 'हे प्रियतम! किं करोमि? ज्येष्ठजाया ज्यायसी, अहं तु लघीयसी, तेन सा सर्वमपि गृहकृत्यं कर्तुं मामेव प्रेरयति, ततः खण्डन-पेषण-दलन-चतुष्पदबन्धनादीनि भूरीणि कृत्यानि कुर्वत्या मम विलम्बो भवति, ततोऽन्येधुर्मुकुन्दो विजने भ्रातृजायामूचे 'हे रूपिणि! गृहकृत्यानि सृजन्त्या मम पल्या योऽत्र विलम्बो भवति स विलम्बस्त्वया वारणीयः, द्रुतं च तत्र प्रेष्या।' सोचे- 'हे सुभग!
अहं त्विमां सायमेव प्रेषयामि'। सोऽवोचदेवं तदाऽद्याऽस्या: स्वैरिण्याः शिक्षां दास्यामीति निर्णीय भृशं जटितशृंखलो हट्टाऽन्तः शेते स्म।
तदा च तथैव निशि समेता सा पुंश्चली कपाटमुद्घाटयेति मुकुन्दमवादीत्, यदा च जागृदपि स रुषितो न वक्ति तदा मद्वचोऽनेन नाऽऽकर्णितमिति मत्वा तया पुनस्तथैवोक्तो मुकुन्दोऽवदत्, ‘हे कुलटे! सर्वं चिरमाचरितं [तव चरितं] ज्ञातं, तेनाद्य बहिरेव तिष्ठ, प्रातस्त्वत्पितृ-बन्धुसमक्षं त्वां विडम्ब्य गृहान्निष्कास्य चान्यां परिणेष्यामि'। 'हे नाथ! इयन्तं कालं कृतं ममापराधं सहस्व, अत:परं न करिष्ये,' इति पुनस्तयोक्तेऽप्यसौ मूर्यो यदा कपाटं नोद्घाटयति, तदा स्वदोषमपाकर्तुमुत्पन्नमतिः सा 'कूपे पतामी ति बाढमभिधाय हट्टपुरोवर्तिनि कूपे महान्तमेकं पाषाणं निक्षिप्य स्वयं च हट्टभित्तौ मक्षिकेव निलीय तस्थौ।
तदा तद्भाट्कृतिं श्रुत्वा स दध्यौ नूनमेषा कूपे पतिता, तेन प्रातरस्माकं राजदण्डो भवितेति चकितात्मा यावद् हट्टान्निर्गत्य कूपमभिधावति, तावत्सा स्वरैणी हट्टान्तः प्रविश्य कपाटं पिदधे । हट्टान्तर्गतां तां विज्ञाय तेनागत्य कपाटमुद्घाटयेत्युक्ता सा प्रोचे- 'हे शठ!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org