________________
२९
तरङ्ग १ / कथा १९/२१
शिरः स्थितघटो जीर्णपटो दत्ताशीर्वादः समेत्यान्तः सभं तस्थौ । 'कुतः समागा ?' इति राज्ञा पृष्टः क्षीरनीरधेरिति सोऽभ्यधात् । 'तत्र सकलत्रस्य भगवतश्चक्रपाणेरस्ति कुशलमि' तीरितः स पुनः प्राह - 'हे राजेन्द्र तत्र स्वजनकविनाशविधुरां स्वप्रेयसीमेवं पुरुषोत्तमः प्रमोदयतिदेव ! त्वद्वरवाजिराजिचरणप्रोत्सर्पितैः पांसुभिः । पूर्णस्य स्वपितुर्विनाशविधुरामूचे मुरारिः प्रियाम् ॥ गन्ताङ्कोः करवालकालकवलक्रोडीकृताऽरिप्रिया
प्रत्युत वृद्धिमम्बुधिरयं मा ताम्य मुग्धे ! मुधा ॥ ३ ॥
इति तत्कविकलाकौशलेन चमत्कृतोऽङ्कुश्चिन्तितवान्, अहो असावेकेनापि काव्येन मम सैन्याधिक्यं शौर्यं वैरिविनाशं च वर्णितवान् तेनास्याद्भुता कविशक्तिरिति ध्यात्वा राजा तमाह 'हे कविकुलकोटीरहीर ! अस्मिन् काव्ये कति वर्णाः ?' स उचे 'हे राजेन्द्र ! शार्दूलविक्रीडितमिदं छन्द:, तेन तत्र षट्सप्ततिरक्षराणि।' ततो यथा मम सेनाधिक्यं भवतावर्णि तथा तवाप्यस्तु, इत्यभिधाय राजाबहुरजत - कनक- मणि- मौक्तिका - ऽऽभरण - पट्टकुलादिदानपूर्वं काव्यवर्णमितवाजि-गज-ग्रामाधिपत्यमस्मै वितीर्णवान् । सुमुखोऽपि राजमानितोऽयमिति पोरैः पूजितः प्रतिष्ठास्पदं बभूव ॥ इति दानविषये अङ्कुराजकथा ॥ २० ॥
॥ २१ ॥ सत्यप्रश्रे युधिष्ठिर कथा ॥
आसतां मनुजाः, मनश्चिन्तितेऽर्थे कथिते देवा अपि प्राप्ततोषाः प्रत्यक्षीभूय वरं प्रयच्छन्ति । अत्रार्थे पुराणोक्तयुधिष्ठिरनृपकथा, यथा—
प्रत्युत्तरे सत्यतरे प्रदत्ते, भवन्ति देवा अपि तोषभाजः । युधिष्ठिरेणोक्तवति स्वरूपे, सत्ये द्रुतं तत्सहजा जिजीवुः ॥ १ ॥
तथाहि - द्यूतेन हारितराज्यो द्वादशाब्दीवनवासमङ्गीकृत्य सौदरैर्मात्रा पल्याच सह धर्मपुत्रो हस्तिनागपुरान्निर्ययौ । स च विकटामटवीमटन् उत्कटपिपासाव्याकुलो भीममभणत् 'हे किर्मीरनिषूदन ! अहं तृषितोऽस्मि तेन पानीयमानीयताम् ।' वृकोदरोऽपि स्वसहोदरस्य भूयसीं पिपासामजानन्निति नर्माकरोत्
Jain Education International
'वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते, काकुस्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते
बाहुः
समुद्रः । वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यजस्रं, स्वच्छेन्तर्मानसेऽस्मिन् कथमवनिपते ! तेम्बुपानाभिलाषः ? ' ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org