________________
२८
श्री कथारत्नाकरे
श्री हेमविजयरचिते इति कथिते काकतालीय-घृणाक्षरीय-ऽजाकपाणीयन्यायेनोत्थितं बलिवईं विलोक्य वातायनस्थः सुन्दरो दध्यौ, अहो! कदर्थितोऽप्यसौ वृषभो नोदस्थात्, किन्तु कर्णजप्ते(ल्पे)न मन्त्रेणोत्तस्थौ, तेन काप्यस्य मन्त्रशक्तिरस्तीति विचार्य विप्रमाकार्य प्रोचे- 'हे विप्र! यत्पीडितोऽप्यसौ वृषभो नोत्थितः, श्रवणजप्ते(ल्पे)न च येन मन्त्रेणोत्थितः, तं मन्त्रं मत्पुरो भण'। दौःस्थ्येन सञ्जातदुरवस्थावशेन राजादिभिरनुपलक्षितस्त्रपानम्राननः स सर्वं वृषभोत्थापनान्तं स्ववृत्तान्तं निवेद्य रचितस्वस्त्रीचरित्रं लोकभाषानुगमिदमेकं छन्दो भणति स्म
कुकट्ठ अने कूहाडि पडि पापणीज घोरे, जूठा सम जे करे दहिं देखतां चोरे। घरमांहे घरघरे प्रीत परघरसुं मांडे, छोरुने आछोटे पहोर पाछले खांडे। वाटें कां नदीएं घणुं बोले विस विंटाए । गंगदत्त कविअण कहे एह रांडथी किम छुटायें ॥ ६ ॥
इति निशम्य सम्यगुपलक्षितं तं सुखास्पदं विधाय स्त्रीपराभवोद्विग्नो राजा स्वार्थं विधत्ते स्म ॥ इति स्त्रीपराभवे गङ्गदत्तद्विजकथा ॥ १९ ॥
॥२०॥ दानविषये अकुराजकथा ॥ चिरं जयन्ति कवयो, येषां वाक्कामगवीव सदर्थसार्थं प्रसूते । यतः
बलिहारी कविअणतणी, जस मुख अमीअ झरंत ।।
जिण पीधे हयडं ठरे, श्रवणे अमीय श्रवंत ॥ १ ॥ तेन कविकलाप्रीणिता दानशौण्डाः किं न प्रयच्छन्ति? अत्रार्थे सुमुख-द्विजाऽङ्घराजकथा। यथा
यच्छन्ति किं न दातार-स्तुष्टा वाग्भिर्मनस्विनाम् ।
देव! त्वदिति काव्येन नाऽकुः किं कवये ददौ ॥ २ ॥ तथाहि- उज्जयिनीपुर्यां कविकलाकौशलेनाऽधरीकृतकविः सुमुखो नाम त्रयीमुखो वसति स्म। स चातीवदुःस्थितो वृद्धनगरे स्वौदार्यगुणकठिनकुठारनिष्कन्दितकर्णगुणाङ्कुरमराजं याचनार्थमाययौ । तत्र जीर्णशीर्णवस्त्रपदत्राणाद्यनर्हवेषः स राजदर्शनमलभमानोऽर्द्धदुग्धाऽर्द्धवारिभृतमेकं कुम्भमादाय पट्टराज्ञीदासीनां पानीयाहरणवर्त्मनि तस्थौ । .
___ अथाऽऽयान्तीभिर्दासीभिर्घटे किमिदमिति पृष्टे क्षीरोदधिनीरमिति सोऽवदत् । ततः स्वयं तन्नीरं निरीक्ष्य ताः प्रोचुः 'हे विप्र! किं भवांस्तत्र गतोऽभूत् ?' ओमिति तेनोक्ते ताः स्वस्वामिन्यै तं वृत्तान्तमचीकथन्। राज्याऽपि भोजनार्थमायातो राजा विज्ञप्तः, 'हे देव ! कोऽपि विप्रः क्षीरसमुद्रान्नीरमादायेहागतोऽस्ति, स चेदत्रायाति तदा पृछ्यते तत्र सुप्तयोः कमला-कमलाधीशयो: कुशलम् । ततो भोजनानन्तरमास्थानीस्थितो राजा ततः स्थानात्तं द्विजमजूहवत् । सोऽपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org