________________
तरङ्ग १/कथा १८/१९ तेन तदा दूरे तिष्ठन्तु नराः, तिर्यञ्चोऽपि स्त्रीपराभवं सोढुमशक्ताः, अत्रार्थे गङ्गदत्तोत्थापितवृषभकथा यथाप्रोच्यते स्त्रीपराभूति-स्तिरश्चामपि दुस्सहा। विवाहं कारयिष्यामि, श्रुत्वेत्युत्तस्थिवान् वृषः ॥ २ ॥
तथाहि- धनसुन्दरे पुरे नि:शेषोदारसुन्दरः सुन्दरः क्षमापतिः परदेशादागताय प्रत्यहमष्टोत्तरशतनव्यकाव्यैः स्तुवते गङ्गदत्ताय कवये तुष्टमना दीनाराणामष्टोतरशतमनिशं यच्छति स्म।
एतद्व्यतिकरं चावलोक्य मत्सरिणस्तत्पुरवासिनः कवयः कुपिताः, यदहो अस्मासु सत्स्वसौ सदा राजदानमाप्नोति, तेन सूत्र्यतां कोऽप्युपायो येनासौ कलाविकलो भवेदिति चिन्तयत्सु तेष्वेकः श्रीदत्तद्विजोऽवोचत्, यदसावपरिणीतस्तेन चेदस्य दुश्चारिणी कलि-कारिणी वाचाटा गेहिनी स्यात्तदा तयोद्विग्नस्यास्य कला विलीयते, तेन यस्या माता कलिकारिणी स्यात् सा दुहिता विलोक्यतां, मातृसदृश्येव सुता । यतः
जिसी कणक तिस्यउ रोटलो, जिसउ बाप तिसउ बेटडो।
जिसउ घडउ तिसी ठिकरी, जिसी माता तिसी दीकरी ॥३॥ इत्यालोच्य तैः कस्याश्चित्कुठारब्राह्मण्याः सुतां तादृशीं विलोक्य गङ्गदत्तो विज्ञप्तः, 'हे द्विजोत्तम! गेहिनीं विना न सुतः, यतः
ग्रामो नास्ति कुतः सीमा ? धर्मो नास्ति कुतः सुखम् ?
दानं नास्ति कुतः कीर्त्ति - र्भार्या नास्ति कुतः सुतः ? ॥ ४ ॥ पुत्रं विना च न स्वर्गाद्यवाप्तिः, यतः--
अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च।
तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गं गच्छन्ति मानवाः ॥ ५ ॥ किञ्चहापि मजन-भोजन-शयनाद्युपभोगोऽपि स्त्रियं विना नोचितः, तेनामुष्मिकसुखाय धनयौवनसफलीकारं पाणिग्रहणं विधेहि ?' इति बाढकदाग्रहादसौ तैरनिच्छन्नपि तां परिणायितः । ततो गृहनिर्वाहचिन्तया तया च कलिकरणेन व्याकुलस्य तस्य कविकला श्यामपक्षेण शशिकलेव दिने दिने हीयते स्म । क्रमेण निष्कलोऽसौ दुःस्थो जातः । ततो निर्वाहाय पृष्टिवाहं वृषभमादाय धान्यादिविक्रयं कुर्वाणस्य तस्यैकदा दुर्दमकमे चतुष्पथेऽसौ गलिर्बलिवर्दो न्यपतत् । तदा च स दुष्टवृषः पुच्छचर्बण-नक्रबन्धन-पाषाणहनन-यष्टिताडन-कशामारणादिभिर्भूयोभिरप्युपायैर्यदा नोत्तिष्ठति तदा स्वस्त्रीचरित्रोद्विग्नः स द्विजो वृषभकर्णे इति कथितवान् ‘हे वृषभ! चेदुत्तिष्ठसि तदोत्तिष्ठ, न चेत्तवापि मत्पत्नीतुल्यायाः स्त्रियः पाणिग्रहणं कारयिष्यामि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org