________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते तेनाधिकतरविद्या-बल-विभवैश्वर्यवर्ये विश्वे कोऽभिमानः? अत्रार्थे तापसीकथा
विश्वे सहस्रशः सन्ति, धीधनेभ्योऽपि धीधनाः ।
यतस्तां तापसी बुद्ध्या, धीमती सचिवोऽजयत् ॥ २ ॥ तथाहि-स्तम्भतीर्थवासिनो भूधरद्विजस्य रूपपराभूतकमला कमलानामदुहिता बालत्वे एव विधवाभूत्। सा चैकशः श्रुतधारिणी सञ्जातविद्याऽखर्वगर्वा करगृहीतकनककच्चोलका तापसी बभूव।
किञ्च यो ममा श्रुतं श्रावयति तस्येमं कच्चोलकं ददामि, यदि च श्रुतं श्रावयति तदैतन्मितं स्वर्णं तत्पाद् िगृह्णामीति वदन्ती सर्वत्र बभ्राम । अथान्यदैकशः श्रुतावधारिणी भूरिजनानां सद्यस्ककवीनामपि जयेनोपार्जितेन विभवेनार्थि-दीन-भिक्षाचरादीन् प्रीणयन्ती विहितवस्त्राद्याडम्बरां वादिगर्वापहारिणि पत्तने चतुष्पथादिषु भ्रमन्तीं तां निरीक्ष्य श्रीकर्णराजो मन्त्रिणं केयमिति पृच्छति स्म । स्वचराद् विज्ञाय तादृशं तापसीस्वरूपं वदन्तं तं भूपः पुनरूचे 'हे मन्त्रिन्नस्ति कोऽप्युपायोऽस्या गर्वसर्वस्वापहारी ?' ततो राज्ञः पुरस्ताद् ओमित्यभिधाय तामाकार्य सचिवः प्रोचे, 'हे भद्रे! किं तव सर्वं शास्त्रमायाति?' स्वमतिसौन्दर्योत्पन्नगर्वा साप्यवोचदोमिति । ततस्तद्गर्वपर्वतपविनिभया धियैकां गाथां सचिवः प्राह
'तुह जणओ मह पिउणो, धारेइ अणूणगं सयसहस्सं ।
अह जाणसु ता दिजउ, अहवा मम खोरयं देसु ॥ ३ ॥ यदीयं गाथा तवायाति तर्हि त्वमेव साक्षिणी, तेन सुवर्णटङ्कानामेकं लक्षं देहि, नो चेत्कच्चोलकं मुञ्च' इत्युक्ते इतो व्याघ्र इतस्तटीति सङ्कटे पतिता सा खोरकं (कच्चोलकं) मन्त्रिपुरो विमुच्योचे हे स्वामिन्नसौ दम्भो मयाथ कदापि न विधेयः,' [तत् श्रुत्वोपालम्भपूर्वकं] पौरसाक्षिकं मन्त्रिणा प्रत्यर्पितं स्वखोरकमादाय मुक्तस्मया सा क्वापि तीर्थे कृततपा स्वार्थ साधितवती ॥ इति मतिविषये मन्त्रिकथा ॥ १८ ॥
॥१९॥ स्त्रीपराभवे गङ्गदत्तकथा ॥ स्त्रीपरिग्रहो हि नराणां क्लेशाय, येन तदाधीन एव नरो राजसेवन-परदेशगमनरणप्रविशनदुराचाररचन-परयाचनप्रमुखपराभवान् सहते । यतः
दानादानरतैः सदैव शिशुकैराकृष्टजीर्णाम्बरा । क्रोशद्भिः क्षुधितैनरैर्न विधुरा दृश्येत चेद्रोहिनी ॥ याच्ञाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं ।
को देहीति वदेत्स्वकीयजठरस्यार्थे मनस्वी पुमान् ॥ १ ॥ १. पराभवं - AHRST
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org