________________
तरङ्ग १ / कथा १७/१८
कलहकरणशक्तिरूपोऽपि स्मयो न विधेयः, अत्रार्थे सोढि - श्रेष्ठिस्नुषाकथा, यथान गर्वः सर्वथा कार्य:, क्वापि केनापि धीमता ।
यत् श्रेष्ठिस्नुषया जिग्ये, सोढिः कलहकारिणी ॥ १ ॥
तथाहि–वृद्धनगरनिवासिनी सोढिनाम्नी नागरब्राह्मणी कलिकलया सर्वत्र लब्धप्रसिद्धिः कलहबलेन नगर-पुर-ग्रामादिषु सर्वत्र लोकं जयन्ती वादिवृन्ददर्पसर्पगारुडरत्ने श्रीमति पत्तने समेत्य चिरं जयेत्याशीर्वादपुरस्सरं सिद्धराजमिदमवादीत्, 'हे नरेन्द्र ! युष्मत्पुरे कोऽप्यस्ति नरो वा नारी वा ? यो मया सह कलिं करोति, न चेत्तदा मम दिग्विजयप्रशस्तिकायामिदं नगरमहमजैषमिति लिखित्वार्पय ?' तत् श्रुत्वा राज्ञोक्तं- 'हे भद्रे ! स्थिरा भव, कलिं कारयिष्यामि' इति तां प्रोच्य राज्ञा स्वपुंर तत्प्रतिज्ञापटुं पटहं वाद्यमानं श्रीमतिनामस्वस्नुषाज्ञया पुण्यसारश्रेष्ठी स्पृशति स्म । [ पटहवादकैर्विज्ञप्तो राजाश्रेष्ठिनमाकार्य तद्विषये पृष्टवान् ], 'स्नुषाऽऽज्ञयाऽहं पटहमस्प्राक्षम्' इति श्रेष्ठिना विज्ञप्ते राज्ञा समाहूता यानस्थिता श्रीमत्यपि उपभूपमुपेत्य यथास्थानस्थिता सोढिमूचे, 'हे सोढे ! यदि कलिं करोषि तदा कलेर्जनकः कः ?' कलेश्च भेदा: कतीति वद, ततः साऽपि [ चिन्तयति ] अहो ! इयन्तं कालं तु केनाप्यदः पृष्टं नास्ति, किञ्च अहं तु वाग्भिरेव कलिं करोमि, कलेर्जनक प्रकारांश्च न वेद्मि, इयं तु वेत्ति, तेनैषा मनिषिणीति विचिन्त्याऽनयाहं जितेति वदन्ती सा श्रीमत्याः पादौ प्राणमत्, [ आह च]' हे धीमति ! त्वं मद्गुरुस्थाने, तेन वदस्वोक्तनिर्णयमित्युक्ता श्रीमती प्राह
रागबाप खुंखार भणीजें, कथाबाप हुंकार सुणीजे
प्रीतिबाप जीकार कहीजें, कलहबाप तुंकार भणीजें ॥ १ ॥ [ मेदान्तरमपि ] भेदान्तरमपि लेहेणाकी जड मांगणा, रोगों की जड खांसी ॥
दालिदकी जड खांउं खाउं, लडाइकी जड हांसी ॥ २ ॥
स च कलिः षड्विधः, द्वैघटिकः, प्राहरिकः, दैवसिकः, चातुर्मासिकः, वार्षिकः, आजन्मिकश्च । तथाहि - एकस्थाल्यां भुञ्जानानामाद्यः, एकस्मिन् पर्यङ्के शयानानां द्वितीयः, भाटकेनैकस्मिन् शकटे स्थित्वा गच्छतां तृतीयः, मिथः सम्भूय विहितवार्षिककृषीणां तुरीयः, सम्भूयविहितोभयकृषीणां पञ्चमः दम्पतीनां च षष्ठ इति । तदुक्तिरञ्जिता सोढिस्तत्पादौ प्रणम्य त्यक्तगर्वा स्वपुरं ययौ, वस्त्राभरणादिना भूपेन सन्मानिता श्रीमत्यपि स्वौकसि समागात् ॥ इति कलहकौशले पुण्यसारश्रेष्ठिस्नुषाकथा ॥ १७ ॥
॥ १८ ॥ बुद्धिविषये मन्त्रिकथा ॥ अधीतशास्त्रैरपि पुरुषैर्विद्यायाः स्मयो न विधेयः, यतः - मा वहउ कोइ गव्वं, इत्थ जये पंडिओ अहं चेव । आसवण्णु मईओ, तरतमजोगेण मतिविहवा ॥ १
11
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org